________________
अध्ययन-१ - [नि.९८०]
३८७ जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ॥ वृ-नैवास्ति 'मानुपाणां' चक्रवादीनामपि तत् सौख्यं, नैव ‘सर्वदेवानाम्' अनुत्तरसुरपर्यन्तानामपि, यत् सिद्धानां सोख्यम् ‘अव्याबाधामुपगताना मिति तत्र विविधा आबाधा व्याबाधा न व्याबाधा अव्याबाधा तामुपसामीप्येन गतानां प्राप्तानामिति गाथार्थः ॥
यथा नास्ति तथा भङ्गयोपदर्शयतिनि. (९८१) सुरगणसुहं समत्तं सम्बद्धापिंडिअं अनंतगुणं ।
न य पावइ मुत्तिसुहंऽनंताहिवि वग्गवग्गूहि ॥ कृ. 'सुरगणसुखं देवसङ्घातसुखं 'समस्त सम्पूर्णम् अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनश्च 'सव्वद्धापिंडिअं' सर्वकालसमयगुणितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयकैकाकाशप्रदेशे स्थाप्यते, इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्रानोति तथाप्रकर्षगतमपि 'मुक्तिसुखं' सिद्धिसुखम्, अनन्तैरपि वर्गवगैर्वर्गितमिति गाथार्थः ।। तथा चैतदभिहितार्थानुवाद्येवाऽऽह ग्रन्थकारःनि. (९८२) सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हविजा।
सोऽनंतवग्गभइओ सव्वागासे न माइजा । वृ-सिद्धस्य सम्बन्धिभूतः सुखराशिः, सुखसङ्घात इत्यर्थः, “सद्धिापिण्डितः' सर्वकालसमयगुणितः यदि भवेदित्यनेन कल्पनामात्रतामाहः, सः 'अनन्तवर्गभक्तः' अनन्तवर्गापवर्गितः सन् समीभूत एवेति भावार्थः, 'सर्वाकाशे' लोकालोकाकाशे न मायात्, अयमत्र भावार्थ:-इह किल विशिष्टाह्लादविशेषास्ते सर्वाकाशप्रदेशादिभ्योऽपि भूयांस इत्यतः किलोक्तं-'सव्वागासे न माएज' त्ती त्यादि, अन्यथा नियतदेशावस्थितिः तेषां कथमिति सूरयोऽभिदधतीति, तथा चैतत्संवाद्यार्षवेदेऽप्युक्तम्, इत्यलं व्यासनेनेति गाथार्थः ।। साम्प्रतमस्यैवंभावस्यापि सतः निरुपमतां प्रतिपादयन्नाहनि. (९८३) जह नाम कोइ मिच्छो नगरगुणे बहुविहे विआणतो।
न चएइ परिकहेउं उवमाइ तहिं असंतीए ॥ खु-यथा नाम कश्चित् म्लेच्छ: 'नगरगुणान् सद्गृहनिवासादीन् 'बहुविधान्' अनेकप्रकारान् विजाननरण्यगतः सन्नन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुं, कुतो निमित्तात् ?, इत्यत आह-उपमायां तत्रासत्यामिति गाथाक्षरार्थः ।। भावार्थः कथानकादवसेयः, तच्छेदम्-एगो महारन्नवासी मिच्छो रन्ने चिट्ठइ, इओ य एगो राया आसेण अवहरिउं तं अडविं पवेसिओ, तेन दिट्ठो, सक्कारेऊण जनवयं नीओ, रन्नावि सो नयरं, पच्छा उवयारित्ति गाढमुवचरिओ जहा राया तहा चिट्ठइ धवलधराईभोगेणं, विभासा, कालेण रन्न सरिउमारद्धो, रन्ना विसजिओ गओ, रन्निगा पुच्छंति- केरिसं नयरंति ?, सो विआणतोऽवि तत्थोवमाऽभावा न सक्कइ नयरगुणे परिकहिउं । एस दिलुतो, अयमत्थोवणओत्तिनि. (९८४) इअ सिद्धाणं सुक्खं अनोवमं नस्थि तस्स ओवम्म ।
किंचि विसेसेणित्तो सारिक्खमिणं सुणह वुच्छं । वृ- ‘इय' एवं सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह-यतो नास्ति तस्यौपम्यमिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org