________________
अध्ययनं-१ - [नि.९१२]
उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् । नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥४॥
न दष्टो दंशमशकैस्त्रासंद्वेषं मुनिव्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ।।५।। वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वासाधु वा । लाभालाभविचित्रत्वं, जाननाग्न्येन विप्लुतः ।।६।। गच्छंस्तिष्ठनिषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्यं, स्वस्थचेता भवेन्मुनिः ॥७॥
सङ्गपङ्कसुदु धाः, स्त्रियो मोक्षपथार्गलाः । चिन्तिता धर्मानाशय, यतोऽतस्ता न चिन्तयेत् ॥८॥
ग्रामाधनियतस्थायी, सदा वाऽनियतालयः । विविधाभिग्रहैर्युक्तश्चर्यामकोऽप्यधिश्रयेत् ॥९॥
श्यमशानदिनिषद्यासु, स्यादिकण्टकवर्जिते । उपसर्गाननिष्टेस्टानेकोऽभीरस्पूहः क्षमेत् ॥१०॥
शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते । सहेत सङ्गं नेयाच्च, श्वस्त्याज्येति च भावयेत् ॥११॥ नाक्रुष्टो मुनिराक्रोशेत्, साम्याद् ज्ञानद्यवर्जकः । अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन ॥१२॥
हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगाद्, गुणाप्तेः, क्रोधदोषतः ॥१३॥
परदत्तोपजीवित्वाद, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं, क्षाम्येनेच्छेदगारिताम् ।।१४॥
परकीयं परार्थ च, लभ्येतान्नादि नैव वा। लब्धे न मायेन्निन्देद्वा, स्वपरान्नाप्यलाभतः ॥१५॥
नोद्विजेद्रोगसम्प्रातो, न चाभीप्सेचिकित्सितम् । विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत् ।।१६।।
अभूताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दुःखं, सहेनेच्छेच्च तान् मृदून् ॥१७||
मलपङ्करजोदिग्धो, ग्रीष्मोष्णकेदनादपि । नोद्विजेत् मानमिच्छेद्वा, सहेतोद्वर्तयेन वा ॥१८॥
उत्थानं पूजनं दानं, स्पृहयेनात्मपूजकः । मूर्छितो न भवेल्लब्धे, दीनोऽसत्कारितो न च ॥१९॥
अजानन् वस्तु जिज्ञासुर्न-मुह्येत् कर्मदोषवित् ।
241 23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org