________________
आवश्यक मूलसूत्रम्-१.१/१ गाथाशकलं व्याख्यातमेव, नवरं तत्र यदुक्तं तेषां वस्तुत्वेऽयं हेतु' रिति, स खल्विदानी हेतुरुच्यते, तत्रेयं गाथानि. (९०३)मग्गे १ अविप्पनासो २ आयारे ३ विनयया ४ सहायतं ५।
. पंचविहनमुक्कारं करेमि एएहिं हेऊहिं॥ - मार्गः अविप्रणाशः आचारः विनयता सहायत्वम् अर्हदादीनां नमस्कारार्हत्वे एते हेतव, यदाह-पञ्चविधनमस्कारं करोमि एभिर्हेतुभिरिति गाधासमासार्थः ॥ इयमत्र भावना-अर्हतां नमस्कारार्हत्वे मार्गः-सम्यग्दर्शनादिलक्षणो हेतुः, यस्मादसौ तैः प्रदर्शितस्तस्माच मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात् पूज्यास्त इति । सिद्धानां तु नमस्कारार्हत्वेऽविप्रणाशः, शाश्वतत्वं हेतुः, तथाहि-तदविप्रणाशवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते । आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतुः, तथाहि-तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय भवन्ति । उपाध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयनसमर्थविनयवन्तो (प्र) भवन्ति देहिन इति । साधूना तु नमस्कारार्हत्वे सहायत्वं हेतुः, यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति गाथार्थः । एवं तावत्समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः साम्प्रतं प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाहनि. (१०४) अडवीइ देसिअत्तं १ तहेव निजामया समुइंमि २।
छक्कायरक्खणट्ठा महगोवा तेन वुचंति ३॥ कृ.अटव्यां देशकत्वं कृतमर्हद्भिः , तथैव निर्यामकाः समुद्रे, भगवन्त एव षट्कायरक्षणार्थ यतः प्रयलं चक्रुः महागोपास्तेनोच्यन्त इति गाथासमासार्थः । अवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र द्वारावयवार्थोऽभिधीयतेनि. (९०५). अडविं सपञ्चवायं वोलित्ता देसिओवएसेणं ।
पावंति जहिट्ठपुरं भवाडविपी तहा जीवा ॥ नि. (९०६) पावंति निब्बुइपुरं जिनोवइटेण चेव मग्गेणं ।
अडवीइ देसिअत्तं एवं ने जिणिंदाणं ॥ वृ. 'अटवी' प्रतीतां 'सप्रत्यपायाम्' इति व्याघ्रादिप्रत्यपायबहुलां 'वोलेत' ति उल्लक्ष्य 'देशिकोपदेशेन निपुणमार्गझोपदेशेन प्राप्नुवन्ति यथा' 'इष्टपुरम् इष्टपत्तनं, भवाटवीमप्युल्ल
येति वर्तते, तथा जीवः किं प्राप्नुवन्ति ?-निवृतिपुरं' सिद्धिपुरं जिनोपदिष्टेनैव मार्गेण, नान्योपदिष्टेन, ततश्चाटव्यां देशिकत्वमेवं ज्ञेयं ज्ञातव्यं, केषां ? -जिनेन्द्राणामिति गाथाद्वयसमासार्थः ।। व्यासार्थस्तु कथानकादवसेयः, तन्नेदम्-एत्थं अडवी दुविहा-दव्वाडवी भावाडवी य, तत्थ दव्याडवीए ताव उदाहरणं-वसंतपुरं नयरं, धनो सत्यवाहो, सो पुरंतरं गंतुकामो घोसणं कारेइ जहा नंदिफलणाए, तओ तत्य वहवे तडिगकप्पडिगायदो संपिडिया, सो तेसिं मिलियाणं पंथगुणे कहेइ-एगो पंथो उज्जुओ एगो वंको, जो सो वंको तेन मणागं सुहंसुहेण गम्मइ, बहुणा य कालेण इच्छियपुरं पाविजइ, अवसाणे सोवि उज्जुगं चैव ओयरइ, जो पुण उज्जुगो तेन लहुं गम्मइ, किच्छेण य, कहं ?, सो अईव विसमो सण्हो य, तत्थ ओतारे चेव दुवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org