________________
३०७
उपोद्घातः - [नि.८३९]
दुक्खेण मानुसत्तं जइ लहइ जहिच्छया जीवो ।। वृ-कृत्वाऽनेकानि जन्ममरणपरावर्तनशतानि दुःखेन मानुषत्वं लभते जीवो यदि यहच्छया, कुशलपक्षकारी पुनः सुखेन मृत्वा सुखेनैव लभत इति गाथार्थः ॥ नि. (८४०) तं तह दुल्लहलंभं विज्जुलयाचंचलं मानुसत्तं ।
लभ्रूण जो पमायइ सो कापुरिसो न सप्पुरिसो। वृ-तत्तथा दुर्लभलाभं विद्युल्लताचञ्चलं मानुषत्वं लब्ध्वा यः 'प्रमाद्यति' प्रमादं करोति स कापुरुषो न सत्पुरुष इति गाथार्थः । इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-यथैभिर्दशभिदृष्टान्तैर्मानुष्यं दुर्लभं तथाऽऽर्यक्षेत्रादीन्यपि स्थानानि, ततश्च सामायिकमपि दुष्प्रापमिति, अथवा मानुष्ये लब्धेऽप्येभिः कारणैदुर्लभं सामायिकमिति प्रतिपादयत्राहनि. (८४१) आलस्स मोहऽवण्णा धंभा कोहा पमाय किवणत्ता !
भयसोगा अन्नाणा वक्खेव कुतूहला रमणा ।। -आलस्यात्र साधुसकाशं गच्छति शृणोति वा, मोहाद् गहकर्तव्यतामूढो वा, अवज्ञातो वा किमेते विजानन्तीति, स्तम्भाद् वा जात्याद्यभिमानात् क्रोधाद् वा साधुदर्शनादेव कुप्यति, 'प्रमादात्' वा मद्यादिलक्षणात् 'कृपणत्वात' वा दातव्यं किञ्चिदिति, 'भयान्' वा नरकादिभयं वर्णयन्तीति, 'शोकात् वा इष्टवियोगजात् 'अज्ञानात्' कुष्टिमोहितः, 'व्याक्षेपा' बहुकर्तव्यतामूढः, 'कुतूहलात्' नटादिविषयात्, रमणात्' लावकादिखेड्डेनेति गाथार्थः। नि. (८४२) एतेहिं कारणेहिं लभ्रूण सुदुल्लहपि मानुस्सं ।
न लहइ सुतिं हियकरि संसारुत्तारणिं जीवो ॥ वृ-एभिः 'कारणैः' आलस्यादिमिर्लब्ध्वा सुदुर्लभमपि मानुष्यं न लभते श्रुतिं हितकारिणी संसारोत्तारिणी जीव इति गाथार्थः । व्रतादिसामग्रीयुक्तस्तु कमरिपून विजित्याविकलचारित्रसामायिकलक्ष्मीमवाप्नोति, यानादिगुणयुक्तयोधवजयलक्ष्मीमिति । आह चनि. (८४३) जाणावरणपहरणे जुद्धे कुसलत्तणं च नीती य ।।
दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥ वृ-यानं हस्त्यादि, आवरणं-कवचादि, ग्रहरणं-खङ्गादि, यानावरणग्रहरणानि, युद्धे कुशलत्वं च-सम्यग् ज्ञानमित्यर्थः, 'नीतिश्च' निर्गमप्रवेशरूपा 'दक्षत्वम्' आशुकारित्वं 'व्यवसायाः' शौर्य शरीरम् अविकलम् 'आरोग्यता, व्याधिवियुक्ताता चैवेति । एतावद्गुणसामायविकल एव योधो जयश्रियमानोतीति दृष्टान्तः, दान्तिकयोजना त्वियं-'जीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती। झाणं पहरणमिटुं गीयत्थत्तं च कोसल्लं ॥ दव्वाइजहोवायाणुरूवपडिवत्तिवत्तिया नीति। दकखत्तं किरियाणं जां करणमहीणकालंमि ॥ करण सहणं च तवोवसग्गदुग्गावतीऍ ववसाओ। एतेहिं सुणिरोगो कम्मरिउं जिणति सव्वेहिं ।' विजितय च समग्रसामायिकश्रियमासादयतीति गाथार्थः । अथवाऽनेन प्रकारेणाऽऽसाद्यत इतिनि. (८४४) दिढे सुएऽनुभूअ कम्माण खए कए उवसमे अ।
मनवयणकायजोगे अ पसत्ये लब्भए बोही ।। वृ-दृष्टे भगवत्ः प्रतिमादौ सामायिकमवाप्यते, यथा श्रेयांसेन भगवद्दर्शनादवाप्तमिति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org