________________
२९२
आवश्यक मूलसूत्रम्-१. उच्यते, स्थूलसावद्ययोगविषयमेव तत्, आह च भाष्यकार:
"जति किंचिदप्पजोयणमपप्पं वा विसेसिउं वत्थु । पञ्चक्खेज न दोसो संयभरमणादिमच्छव्व ॥१॥ जो वा निक्खमिउमणो पडिमं पुतादिसंतइणिमित्तं ! पडिवञ्जिज्ज तओ वा करिज तिविहंपि तिविहेणं ॥२॥
जो पुन पुव्वारद्धाणुझियसावज्जकम्मसंताणो ।
तदनुमतिपरिणति सो न तरति सहसा णियत्तेउं ॥३॥ इत्यादि" तथाऽपि गृहस्थसामायिकापि परलोकार्थिना कार्यमेव, तस्यापि विशिष्टफलसाधकत्वाद्, आह च नियुक्तिकारःनि. (८०१) सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा ।
एएण कारणेणं बहुसो सामाइयं कुजा ॥ वृ-सामायिक एव कृते सति श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितत्वात् कर्मवेदक इत्यर्थः, अनेन कारणेन ‘बहुशः' अनेकधा सामायिकं कुर्यादिति गाथार्थः ।। किञ्च नि. (८०२) जीवो पमायबहुलो बहुसोऽवि अ बहुविहेसु अत्येसुं।
एएण कारणेणं बहुसो सामाइयं कुञा ॥ वृ-जीवः प्रमादबहुल: 'बहुशः' अनेकधाऽपि च बहुविधेष्वर्थेषु-शब्दादिषु प्रमादवांश्चैकान्तेनाशुभबन्धक एव, अतोऽनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात्-मध्यस्थो भूयादिति गाथार्थः ।। साम्प्रतं सक्षेपेण सामायिकवतो मध्यस्थस्य लक्षणमभिधित्सुराहनि. (८०३) जो नवि वट्टइ रागे नवि दोसे दोण्ह मल्झयारंभि ।
सो होइ उ मज्झत्थो सेसा सब्बे अमज्झत्था ।।। दृ-यो नापि वर्तते रागे नापि द्वेष, किं तर्हि ?-'दोण्ह मज्झयारंमि' द्वयोर्मध्य इत्यर्थः, स भवति मध्यस्थः, शेषाः सर्वेऽमध्यस्था इति गाथार्थः ।। साम्प्रतंक किं सामायिकमिति निरूपयन् द्वारगाथात्रयमाहनि. (८०४) खेत्तदिसाकालगइ भवियसण्णिऊसा सदिढिमाहारे ।
पजत्तसुत्तजम्मठ्ठितिवेयसण्णाकसाया ऊ ॥ नि. (८०५) नाणे जोगुवओगे सरीरसंठाणसंधयणमाणे ।
लैसा परिणामे वेयणा समुग्घाय कम्मे य॥ नि. (८०६) निव्वेढणमुबट्टे आसवकरणे तहा अलंकारे ।
सयनासनठाणत्ये चंकम्मंते य किं कहियं ॥ वृ. आसां समुदायार्थः क्षेत्रदिक्कालगतिभव्यसंज्ञिउच्छ्वासद्दष्टयाहारकानङ्गीकृत्याऽऽलोचनीयं, किं वसामायिकमिति योगः, तथा पर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायायूषि चेति, तथा ज्ञानं योगोपयोगी शरीरसंस्थानसंहननमानानि लेश्याः परिणामं वेदनां समुद्घातं कर्म च क्रिया पूर्ववत्, तथा निर्वेष्टनोद्वर्त्तने अङ्गीकृत्यालोचनीयं-वकिमिति ? आश्रवकरणं तथाऽलङ्कारं तथा शयनासनस्थानस्थानधिकृत्येति, तथा चक्रमतश्च विषयीकृत्य किं सामायिकं क्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org