________________
२८६
आवश्यक मूलसूत्रम् - १
चीवराणि छड्डियाणि, ताहे भिक्खं पविट्ठा, गणियाए दिट्ठा, मा अम्ह लोगो विरजिहित्ति उरे से पोत्ती बद्धा, ताहे सा नेच्छइ, तेन भणियं अच्छउ एसा, तव देवयाए दिन्ना, तेन य दो सीसा पव्याविया - कोडिनो कोट्टवीरे य, ततो सीसाण परंपराफासो जाओ, एवं बोडिया उप्पन्ना | अमुमेवार्थमुपसंजिहीर्षुराह मूलभाष्यकार:
[भा. १४७]
ऊहाए पन्नत्तं बोडियसिवभूइउताराहि इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पन्नं ॥ बोडियसिवभूईओ बोडियलिगस्स होइ उप्पत्ती । कोडिण्णकोट्टवीरा परंपराफासमुप्पन्ना ॥
[ भा. १४८ ]
वृ- 'ऊहया' स्वतर्कबुद्ध्या 'प्रज्ञप्तं ' प्रणीतं बोटिकशिवभूत्यृत्तराभ्यामिदं मिथ्यादर्शनम्, 'इणमो' त्ति एतच्च क्षेत्रतो रथवीरपुरे समुत्पन्नमिति गाथार्थः ॥ बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'बोडियलिगस्स आसि उप्पत्ती' ततः कौडिन्यः कुट्टवीरश्च, 'सर्वो द्वन्द्वो विभाषया एकवद्भवती' ति कौण्डिन्यकोट्टवीरं तस्मात् परम्परास्पर्शम् - आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना - सञ्जाता, बोटिक - दृष्टिरध्याहरणीयेति गाथार्थः । साम्प्रतं निह्नववक्तव्यतां निगमयन्नाह
नि. (७८४) एवं एएकहिया ओसप्पिणीए उ निण्हया सत्त ।
वीरवरस्स पवयणे सेसाणं पव्वयणे नत्यि ||
वृ- 'एवम्' उक्तेन प्रकारेण 'एते' अनन्तरोक्ताः 'कथिताः प्रतिपादिताः, अवसर्पिण्यामेव निह्नवाः सप्त अमी वीरवरस्य प्रवचने' तीर्थे, 'शेषाणाम्' अर्हतां प्रवचने 'नत्थि' त्ति न सन्ति, यद्वा नास्ति निह्नवसत्तेति गाथार्थः ॥
नि. (७८५)
मोत्तुणमेसिमिक सेसाणं जावजीविया दिट्ठी । एक्केकरस य एत्तो दो दो दोसा मुणेयव्वा ॥
वृ-मुक्त्वैषामेकं गोष्ठामाहिलं निह्नवाधमं 'शेषाणां' जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावज्जीविका दृष्टिः, नापरिमाणं प्रत्याख्यानमिच्छन्तीति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यास इति ?, उच्यते, प्रत्यहमुपयोगेन प्रत्याख्यानस्योपयोगित्वात्मा भूत् कश्चित् तथैव प्रतिपद्येत (तेति), अतो ज्ञाप्यते - निह्नवानामपि प्रत्याख्याने इयमेव दृष्टिः, एकैकस्य च 'एत्तो' त्ति अतोऽमीषां मध्ये द्वौ द्वौ दोषी विज्ञातव्यी, मुक्त्वैकमिति वर्तते, भावार्थ तु वक्ष्यामः, परस्परतो यथाऽऽ हुर्बहुरता जीवप्रदेशिकान् भवन्तः कारणद्वयान्मिथ्यादृष्टयः, यदुद्भणथएकप्रदेशो जीवः, तथा क्रियमाणं च कृतमित्येवं सर्वत्र योज्यं, गोष्ठामाहिल मधिकृत्यैकैकस्य यो दोषा इति यथाहुर्वहुरतान् गोष्ठामाहिलाः - दोषत्रयाद् भवन्तो मिथ्याद्दष्टयः यत् कृतं कृतमिति भणतः तथा बद्धं कर्म वेद्यते यावज्जीवं च प्रत्याख्यानमिति गाथार्थः ॥ तत्रैता दृष्टयः किं संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृर्त्यर्थमाहनि. (७८६) सत्तेया दिट्ठीओ जाइजरामरणगब्भवसहीणं ।
मूलं संसारस्स उ भवंति निग्गंथरूवेणं ॥
वृ- सप्तैता दृष्टयः, बोटिकास्तु मिथ्याध्ष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org