________________
२४२
आवश्यक मूलसूत्रम्-१
नि. (७१५) न वओ एत्य पमाणं न य परियाओऽवि णिच्छयमएणं ।
ववहारओ उ जुज्जइ उभयनयमयं पुण पमाणं ॥ वृ- न 'वयः' अवस्थाविशेषलक्षणम् ‘अत्र' वन्दकविधौ प्रमाणं, न च 'पर्यायोऽपि' प्रव्रज्याप्रतिपत्तिलक्षणः 'निश्चयमतेन' निश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिवयवहारलोपातिप्रसङ्गनिवृत्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमिति सन्देहापनोदार्थमाह-उभयनयमतं पुनः प्रमाणमिति गाथार्थः । प्रकृतमेवार्थं समर्थयन्नाहनि. (७१६) निच्छयओ दुग्नेयं को मावे कम्मि वट्टई समणो ?।
ववहारओ उ कीरइ जो पुव्वठिओ चरितंमि । वृ-निश्चयतो दुर्जेयं-को भावे कस्मिन्-प्रशस्तेऽप्रशस्ते वा वर्तते श्रमण इति, भावश्चेह, ज्येष्ठः, ततश्चानतिशयिनः वन्दनकरणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथम प्रव्रजितः सन्ननुपलब्धातिचार इति गाथार्थः ।। ___ आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात्, तस्यापि च बलवत्त्वाद्, आह च भाष्यकार:[मा.१२३] ववहारोऽविहु बलवं जं छउमत्थंपि वंदई अरहा।
जा होइ अणाभिन्नो जाणंतो धंमयं एयं ॥ वृ- व्यवहारोऽपि च बलवानेव, 'यद्' यस्मात् छद्मस्थमपि पूरलाधिकं गुर्वादि वन्दत 'अर्हन्नपि केवल्यपि, अपिशब्दोऽत्रापि सम्बध्यते । किं सदा?, नेत्याह-जा होइ अणाभिन्नोत्ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन् धर्मतामेतां व्यवहारनयबलातिशयलक्षणामिति गाथार्थः ॥आह-यद्येवं सुतरां वयःपर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तम्, आशातनाप्रसङ्गादिति, उच्यतेनि. (७१७) एत्य उ जिनवयणाओ सुत्तासायणबहुत्तदोसाओ !
भासंतगजेट्टगस्स उ कायब्वं होइ किइकम्मं ।। वृ- 'अत्र तु' व्याख्याप्रस्ताववन्दनाधिकारे "जिनवचनात्' तीर्थकरोक्सत्वात् तथा च अवन्धमाने सूत्राशातनादोषबहुत्वात् 'भाषमाणज्येष्ठस्यैव प्रत्युचारणसमर्थस्यैवेत्यर्थः, किं?, कर्तव्यं भवति ‘कृतिकर्म' वन्दनमिति गाथार्थः । एवं तावद् ज्ञानोपसम्पद्विधिरुक्तः, दर्शनोपसम्पद्विधिरप्यनेनैव तुल्ययोगक्षेमत्वादुक्त एव वेदितव्यः, तथा च दर्शनप्रभावनीयशास्त्रपरिज्ञानर्थमेव दर्शनोपसम्पदिति ।। अधुना चारित्रोपसम्पद्विधिमभिधातुकाम आह-- नि. (७१८) दुविहा य चरित्तंमी वेयावच्चे तहेव खमणे य।
नियगच्छा अन्नंमि य सीयणदोसाइणा होति ।। वृ- द्विविधा च चारित्रविषयोपसम्पद् वैयावृत्त्यविषया तथैव क्षपणविषया च, आहकिमत्रोपसम्पदा ?, स्वगच्छ एव तत्कस्मान्न क्रियत इति, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति गच्छस्य, आदिशब्दादन्यभावादिपरिग्रह इति गथार्थः ॥ नि. (७१९) इत्तरियाइविभासा वेयावच्चंमि तहेव खमणे य ।
अविगिट्टविगिट्ठमि य गणिणो गच्छस्स पुच्छाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org