________________
आवश्यक मूलसूत्रम्-१
२३२
नि. (६७३) अहयं तुमं एयं करेमि कजं तु इच्छकारेणं । तत्थवि सो इच्छं से करेइ मज्जायमूलियं ॥
वृ- अहमित्यात्मनिर्देशे युष्माकम् 'इदं' कर्तुमिष्टं कार्य करोमि 'इच्छाकारेण' युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तत्रापि 'स' कारापकः साधुः 'इच्छं से करेइ' त्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौ तेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकारं करोतीत्याह-मर्यादामूलं साधूनामियं मर्यादा- न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य इति गाथार्थः । व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं 'तत्थवि इच्छाकारो' त्ति अस्यापिशब्दस्य विषयप्रदर्शनायाह-
नि. (६७४) अहवा सयं करेंतं किंची अन्नस्स वावि दवणं । तस्सवि करेज इच्छं मज्झपि इमं करेहित्ति ॥
वृ- अथवा 'स्वकम्' आत्मीयं कुर्वन्तं किञ्चित्' पात्रलेपनादि अन्यस्य वा दृष्ट्वा किम् ? - तस्याप्यापन्नप्रयोजनः सन् कुर्यादिच्छाकारं कथम् ? - ममापीदं पात्रलेपनादि कुरुतेति गाथार्थः ॥ इदानीमभ्यर्थितसाधुगोचरविधिप्रदर्शनायाऽऽह
नि. (६७५) तत्थवि सो इच्छं से करेइ दीवेइ कारणं वाऽवि । इहरा अनुग्गहत्थं कायव्वं सुहाणो किचं ॥
सृ- तत्रप्यभ्यर्थितः सन् 'इच्छाकारं करोति' इच्छाम्यहं तव करोमीति, अथ तेन गुर्वादिकार्यान्तरं कर्त्तव्यमिति तदा दीपयति कारणं वापि, 'इहरा' अन्यथा गुरुकार्यकर्त्तव्याभावे सति अनुग्रहार्थ कर्त्तव्यं साधोः कृत्यमिति गाथार्थः ॥
अपिशब्दाक्षिप्तेच्छाकारविषय-विशेषप्रदर्शनायैवाह-
नि. (६७६) अहवा नाणाईणं अट्ठाऍ जइ करेज किच्चाणं । वेयावच्चं किंची तत्थवि तेसिं भवे इच्छा ॥
वृ- अथवा ज्ञानादीनामर्थाय आदिग्रहणाद्दर्शनचारित्रग्रहणं, यदि कुर्यात् 'कृत्यानाम्' आचार्याणां वैयावृत्त्यं कश्चित्' साधुः, पाठान्तरं वा 'किंचि' त्ति किश्चिद्विश्रामणादि, तत्रापि 'तेषां' कृत्यानां तं साधुं वैयावृत्त्ये नियोजयतां 'भवे इच्छे' ति भवेदिच्छाकारः, इच्छाकारपुरः सरं योजनीय इति गाथार्थः ॥ किमित्यत आह- यस्मात
नि. (६७७) आणाबलाभिओगो निग्गंथाणं न कप्पई काउं । इच्छा पउंजियव्वा सेहे राईनिए (य) तहा ||
वृ- आज्ञापनामाज्ञा-भवतेदं कार्यमेवेति, तदकुर्वतो बलात्कारापणं बलाभियोय इति, स 'निर्ग्रन्थानां' साधूनां न कल्पते कर्तुमिति, किन्तु 'इच्छ' त्ति इच्छाकारः प्रयोक्तव्यः, प्रयोजने उत्पन्ने सति शैक्षके तथा रत्नाधिके चालापकादि प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थः । एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधिः प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह च
नि. (६७८)
जह जच्चबाहलाणं आसाणं जनवएसु जायाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org