________________
आवश्यक मूलसूत्रम्-१.
कर्मणि च" व्यञ् समाचार्य्य, पुनः स्त्रीविवक्षायां षिद्गौरादिभ्यश्चेति ङीष्, यस्ये त्यकारलोपः, यस्य हल इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणम्-उपरिमश्रुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ काल्चेति समासः, यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः,तत्र हि कालकालवतौरभेदात् कालस्यैव आयुष्काधुपाधिविशिष्टिस्योपक्रमो वेदितव्य इत्यभिप्रायः । तत्र सामाचारी त्रिविधा-'ओहे दसहा पदविभागेत्ति 'ओघः' सामान्यम्, ओघः सामाचारी सामान्यतः सक्षेपाभिधानरूपा, सा चोधनियुक्तिरिति । दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणीति । तत्रौघसमाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमायाभृतात्, तत्राप्योघप्राभृतप्राभृतात् निव्यूढति, एतदुक्तं भवति-साम्प्रतकालप्रव्रजितानां तावच्छुतपरिज्ञानशक्तिविकलानामायुष्कादिह्रासमपेक्ष्य प्रत्यासन्नीकृतेति । दशविधसामाचारी पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रव्रजितपरिज्ञानार्थ नियूंढेति। पदविभागसामाचार्यापि छेदसूत्रलक्षणानवमपूवदेिव नियूंढेति गाथार्थः । साम्प्रतमोधनियुक्तिच्या, सा च सुप्रपञ्चितत्वादेव न विव्रियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाहनि. (६६६) इच्छा मिच्छा तहाकारो, आवसिया य निसीहिया ।
आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा॥ नि. (६६७) उवसंपया य काले, सामायारी भवे दसहा ।
एएसिं तु पयाणं पत्तेय परूवणं वोच्छण ।। वृ-एषणमिच्छाकरणं कारः, तत्र कारशब्दः प्रत्येकभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणम् इच्छाकारः इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रियया न च बलाभियोगपर्विकयेति भावार्थः १, तथा मिथ्या-वितथ मनतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदित जिनवचनसाराः साघवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयं २, तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवस्वरूपः ३, अवश्यकर्त्तव्यैयोगैर्निष्पन्ना आवश्यिकी ४, चः समुच्चये, तथा निषेधेन निवृत्ता नैषेधिकी ५ आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या ६, चः पूर्ववत्, तथा प्रतिपृच्छा, सा च प्राङ्नियुक्तेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या ९, तथा निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता ९, उपसम्पच्च विधिनाऽऽदेया १०॥ एवं 'काले कालविषया सामाचारी भवेद्दशविधा तु। एवं तावत्समासत उक्ताः, साम्प्रतं प्रपञ्चतः प्रतिपदमभिधित्सुराह-एतेषां पदानां, तुर्विशेषणे, गोचरप्रदर्शनेन 'प्रत्येक' पृथक् पृथक् प्ररूपणां वक्ष्य इति गाथाद्वयसमासार्थः ॥
तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनायाहनि. (६६८) जइ अब्भत्थेज परं कारणजाए करेज से कोई ।
तत्थवि इच्छाकारो न कप्पई बलाभिओगो उ ।। वृ- 'यदी' त्यभ्युपगमे अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत्
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only