SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.६६१] २२९ स्थानं स्थितिरेव या सादिसपर्यवसानादिभेदेन 'चतुर्विकल्पा' चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्, अथवा 'द्रव्यं तु' तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः । चेतना चेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाह नि. (६६२) गइ सिद्धा भवियाया अभविय पोग्गल अनागयद्धा य । तीयद्ध तिनि काया जीवाजीवट्ठिई चउहा ॥ वृ- 'गति' त्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'सिद्ध' त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः ‘भवियाय'त्ति भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, 'अभविय'त्ति अभव्याः खल्वभव्यतया अनाद्यपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका । 'पोग्गल' त्ति पूरणगलनधर्माण: पुद्गलाः, ते हि पुद्गलत्वेन सादिसपर्यवसानाः, 'अनागयद्ध'त्ति अनागताद्धा-अनागतकालः, स हि वर्त्तमानसमयादिः सादिरनन्तत्वाच्चापर्यवसान इति, 'तीयद्धा 'त्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, 'तिणि काय'त्ति धर्माधर्माकाशस्तिकायाः खल्वनाद्यपर्यवसाना इति, इत्थं जीवाजीवास्थितिचतुद्धेति गाथार्थः ॥ अद्धाकालद्वारावयवार्थ व्याचिख्यासुराह- नि. (६६३ ) समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर युग पलिया सागर ओसप्पि परियट्टा ।। वृ- तत्र परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टाटिकापाटनद्दष्टान्तादवसेयः, आवलिका असङ्घयेयसमयसमुदायलक्षणा, द्विघटिको मुहूर्तः, दिवसश्चतुष्प्रहरात्मकः, यद्धा आकाशखण्डमादित्येन स्वभाभिर्व्याप्तं तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मक महर्निराहिमत्यर्थः, पक्षः पञ्चदशाहोरात्रात्मकः, मासः तद्विगुणः, चः समुच्चये, संवत्सरो द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्घयेययुगात्मकं पलितमिति उत्तरपदलोपाद, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटीकोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी- सागरोपमदशकोटीकोट्यात्मिका, एवमवसर्पिण्यपि, परावर्त्तोऽनन्तोत्सपिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः ॥ यथाऽऽयुष्ककालद्वार-मुच्यते तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्त्तनादिमयो यथायुष्क- कालोऽभिधीयते, तथा चाह नि. (६६४) नेरइयतिरियमनुयादेवाण अहाउयं तु जं जेण । निव्वत्तियमन्नभवे पालेंति अहाउकालो सो ॥ वृ- नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निर्वर्त्तितं रौद्रध्यानादिना कृतम 'अन्यभवे' अन्यजन्मनि तद् यदा विपाकतस्त एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः । साम्प्रतमुपक्रमकालद्वारमाहनि. (६६५) दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥ वृ- द्विविधश्चासायुपक्रमकालश्चेति समासः, तदेव द्वैविध्यमुपदर्शन्नाह - 'सामायारी अहाउअं चेव' समाचरणं समाचारः शिष्टाचरितः क्रियाकलापस्तस्य भावः “गुणवचनब्राह्मणादिभ्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy