SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ आवश्यक मूलसूत्रम्-१ नष्टे च छानस्थिके ज्ञाने, राव्यां संप्राप्तो महसेनवनमुद्यान, किमिति ? भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अप्यागता आसन, तत्र च प्रवज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान्, ततो द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्तमात्रं देवपूजां जीतमितिकृत्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेषं पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्धेषु चरणन्यासं कुर्वन् मध्यमानगर्यां महसेनवनोद्यानं संप्राप्त इति । नि. (५४०) अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टितं । बीयपि समोसरणं पावाए मझिमाए उ ॥ इस एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः-पूजितः प्राप्तः,किमिइ त्याह-धर्मश्चासौ वरश्च धर्मवरः तस्य चक्रवर्तित्वं, तत्प्रभुत्वमित्यर्थः । पुनर्वितीयं समवसरणम्, अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः, पापायां मध्यमायां, प्राप्त इत्यनुवर्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः ।। नि. (५४१) तत्थ किल सोमिलजोत्ति माहणो तस्स दिक्खकालंमि । पउरा जनजाणवया समागया जनवाडमि ।। कृ. 'तत्र' पापायां मध्यमायां, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य दीक्षाकाले' यागकाल इत्यर्थः, 'पौराः' विशिष्टनगरवासिलोकसमुदायः जनाः' सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः । अत्रान्तरेनि. (५४२) एगंते य विवित्तो उत्तरपासंमि जन्नवाडस्स । तो देवदानविंदा करेंति महिमं जिणिदस्स। वृ. एकान्ते च विविक्ते उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरम् वा 'कासी महिमं जिणिंदस्स' कृतवन्त इति गाथार्थः ॥ अमुमेवार्थं किञ्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह[भा.११५] भवणवइवाणमंतरजोइसवासी विमाणवासी य । सविड्डिए सपरिसा कासी नाणुप्पयामहिमं ।। वृ-भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वा हेतुभूतया सपरिषदः, कृतवन्तः ज्ञानोत्पत्ति-महिमाम् इति गाथार्थः ।। साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्नेतां द्वारगाथामाहनि. (५४३) समोसरणे केवइया रूव पुच्छ वागरेण सोयपरिणामे । दानं च देवमल्ले मल्लाणयणे उवरि तित्थं ।। वृ- “समोसरणे' ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः । 'केवइय' त्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते ?, कियतो वा भूभागादपूर्वे समवसरणेऽष्टपूर्वेण वा साधुना आगन्तव्यमिति । 'रूवत्ति' भगवतो रूपं व्यावर्णनीयं, 'पुच्छ' त्ति किमुत्कृष्टरूपतया भगवत्ः प्रयोजनमिति www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy