________________
१९७
उपोद्घातः - [नि.५३२] नि. (५३२) दस दो य रि महप्पा ठाइ मुणी एगराइयं पडिमं ।
अट्ठमभत्तेण जई एक्ककं चरमराईयं ॥ वृ. दश द्वे च सङ्ख्यया द्वादशेत्यर्थः, किल महात्मा 'ठासि मुणि' ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमां पाठान्तरं वा 'एकराइए पडिमे त्ति एकरात्रिकीः प्रतिमाः, कथमित्याह 'अष्टमभक्तेन त्रिरात्रोपवासेनेति हृदयम्, 'यतिः' प्रयत्नवान्, एकैकां 'चरमरात्रिकी' चरमरजनीनिष्पन्नामिति गाथार्थः ॥ नि. (५३३) दो चेव य छट्ठसए अउनातीसे उवासिया भगवं ।
न कयाइ निचभत्तं चउत्थभत्तं च से आसि ।। वृद्वे एव च षष्ठशते एकोनत्रिशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्याऽऽसीदिति गाथार्थः ।। नि. (५३४) बारस वासे अहिए छठे भत्तं जहन्नयं आसि ।
सव्वं च तवोकम्मं अपाणयं आसि वीरस्स ॥ वृ- द्वादश वर्षाण्यधिकानि भगवतरच्छद्मस्थस्य सतः 'षष्ठं भक्तं द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वं च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति-क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः ।।
पारणककालमान-प्रतिपादनायाहनि. (५३५) तिन्नि सए दिवसाणं अउणावण्णं तु पारणाकालो।
उकुडुयनिसेजाणं ठियपडिमाणं सए बहुए ॥ - त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा 'उत्कुटुकनिषद्यानां स्थितप्रतिमानां शतानि बहूनीति गाथार्थः ।। नि. (५३६) पव्वजाए पढम दिवसं एत्थं तु पक्खिवित्ता णं ।
संकलियंमि उ संते जं लद्धं तं निसामेह ॥ वृ-प्रव्रज्यायाः सम्बन्धिभूतं दिवसं प्रथमम् ‘एत्थं तु' अत्रैवोक्तलक्षणे दिवसगणे प्रक्षिप्य संकलिते तु सति यल्लब्धं तत् 'निशामयत' शृणुतेति गाथार्थः ।। नि. (५३७) बारस चेव य वासा मासा छच्चेव अद्धमासो य ।
वीरवरस्स भगवओ एसो छउमत्थपरियाओ । कद्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति । नि. (५३८) एवं तवोगुणरओ अनुपुब्वेणं मुनी विहरमाणो ।
घोरं परीसहचमुं अहियासित्ता महावीरो ॥ वृ. 'एवम्' उक्तेन प्रकारण तपोगुणेषु रतः-तपोगुणरतः 'अनुपूर्वेण' क्रमेण मन्यते जगतः त्रिकालावस्थामिति मुनिः विहरन् ‘धोरां रौद्रां 'परीषहच' परीषहसेनामधिसह्य महावीरइति। नि. (५३९) उप्पन्नंमि अनंते नटुंमि य छाउमथिए नाणे ।
राईए संपत्तो महसेनवणंमि उज्जाने । वृ- 'उत्पन्ने' प्रादुर्भूते कस्मिन् ? -'अनन्ते' ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच केवलमनन्तं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org