________________
उपोद्घातः - (नि.३३४]
अनगरीए उजानत्थाणं पुरिमतालं नगरं संपत्तो । तत्थ य उत्तरपुरच्छिमे दिसिभागे सगडमुहं नाम उज्जाणं, तंमि निग्गोहपायवस्स हेट्ठा अट्टमेणं भत्तेणं पुव्वण्हदेसकाले फग्गुणबहुलेकारसीए उत्तरासाढणक्खत्ते पव्वजादिवसाओ आरब्म वाससहस्संमि अतीते भगवओ तिहुअणेकबंधवस्स दिव्यमनंतं केवलनाणमुप्पन्नति ।
अमुमेवार्थमुपसंहरन् गाथाषट्कमाहनि. (३३५) कल्लं सव्विड्डीए पूएमहऽदटु धम्मचकं तु ।
विहरइ सहस्समेगं छउमत्थो भारहे वासे । नि. (३३६) बहलीअडंबइल्लाजोणगविसओ सुवण्णभूमी अ ।
आहिंडिआ भगवआ उसभेन तवं चरंतेणं ।। नि. (३३७) बहली अ जोणगा पल्हगा य जे भगवया समणुसिट्ठा ।
अन्ने य मिच्छजाई ते तइआ भद्दया जाया ।। नि. (३३८) तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो ।
अट्ठावओ नगवरो अग्ग (य) भूमी जिनवरस्स ।। नि. (३३९) छउमत्थप्परिआओ वाससहस्सं तओ पुरिमताले ।
नगोहस्स य हेट्ठा उत्पन्नं केवलं नाणं ॥ नि. (३४०) फग्गुणबहुले एक्कारसीइ अह अट्टमेण भत्तेणं ।
उप्पन्नंमि अनंते महब्बया पंच पन्नवए । वृ-आसां भावार्थः सुगम एव, नवरम्-अनुरूपक्रियाऽध्याहारः कार्यः, यथा-कलं प्रत्यूषसि सर्वा पूजयामि भगवन्तम्-आदिकर्तारं अहमिति-आत्मनिर्देशः, अष्ट्वा भगवन्तं धर्मचक्र तु चकारेत्यादि गाथाषट्काक्षरार्थः ।। महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाहनि. (३४१) उप्पन्नंमि अनंते नाणे जरमरणविप्पमुक्कस्स ।
तो देवदानविंदा करिति महिमं जिणिंदस्स ॥ वृ- गमनिका-उत्पन्ने-धातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरावयोहानिलक्षणा मरणं-प्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुकावप्रिमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां-ज्ञानपूजां जिनवरेन्द्रस्य । देवेन्द्रग्रहणात् वैमानिकज्योतिष्टकग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरेन्द्रग्रहणं । सर्वतीर्थकराणां च देवा अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता इति गाथार्थः ॥ इदानीमुक्तानुक्तार्थसंग्रहपरां संग्रहगाथामाहनि. (३४२) उज्जानपुरिमताले पुरी (इ) विणीआइ तत्य नाणवरं ।
चक्कुप्पाया य भरहे निवेअवं चेव दोण्हंपि ॥ वृ. उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन्, पुर्यां विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः । तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चक्रोत्पादश्च बभूव । भरहे निवेअणं चेव दोण्हंपि' त्ति भरताय निवेदनं च द्वयोरपि-ज्ञानरत्नचक्ररत्नयोः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org