________________
उपोद्घातः - [नि.३१६]
१२७ वोसठ्ठचत्तदेहो विहरइ गामानुगामं तु ॥ -गमनिका-ऋषभो वृषभसमगतिर्गृहीत्वा अभिग्रहं परमघोरं परमः-परमसुखहेतुभूतत्वात् घोरः-प्राकृतपुरुषैः कर्तुमशक्यत्वात् तं, 'व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु व्युत्सृष्टोनिष्प्रतिकर्मशरीरतया, तथा चोक्तम्-अच्छिपि नो पमजिजा, नोऽवि य कंडुविया मुनी गायं' त्यक्तः-खलु दिव्याधुपसर्गसहिष्णुतया, शेषं सुगममिति गाथार्थः ।। स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्त्तते, लोकस्य परिपूर्णत्वादर्थ्यभावाच्च, तथा चाह मूलभाष्यकार:[मा.३१]नवि ताव जनो जाणइ का भिक्खा ? केरिसा व भिक्खयरा ?!
ते भिक्खमलभमाणा वणमझे तावसा जाया । वृ-गमनिका नापि तावज्जनो जानाति-का भिक्षा ? कीशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्सरीषहार्ता भगवतो मौनव्रतावस्थिताद् उपदेशमलभमानाः कच्छमहाकच्छावेवोक्तवन्तः-अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं ?, तावाहतुः-वयमपि न विद्यः, यदि भगवान् अनागतमेव पृष्टो भवेत-किमस्माभिः कर्तव्यं ? किं वा नेति, ततः शोभनं भवेत, इदानीं तु एतावद्यज्यतेभरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण चासितुं न शक्यत इत्यतो वनवासो नः श्रेयान्, तत्रोपवासरताः परिशटितपरिणतपत्राधुपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकूले रम्यवनेषु वल्कल चीरधारिणः खल्वाश्रमिणः संवृत्ता इति, आह च 'वनमध्ये तापसा जाताः' इति गाथार्थः । तयोश्च कच्छमहाकच्छयोः सुतौ नमिविनमिनौ पित्रनुरागात् ताभ्यामेव सह विहदवन्तौ, तौ च वनाश्रयणकाले ताभ्यामुक्तौ-दारुणः खल्विदानीमस्माभिर्वनवासविधिरङ्गीकृतः तद्याथ यूयं स्वगृहाणीति, अथवा भगवन्तमेव उपसर्पथः, स वोऽनुकम्पयाऽभिलषित-फलतो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्रयमानं सुगन्धिकुसुमप्रकरं च अवनतोत्तमाङ्गक्षितिनिहितजानुकरतलौ प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपार्वे खगव्यग्रहस्तौ तस्थतुः ।। तथा चाह नियुक्तिकारःनि. (३१७) नमिविनमीणं जायण नागिंदो विजदाण वेअड्डे |
उत्तरदाहिणसेढी सहीपन्नासनगराई ।। वृनमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितं, वैताद्व्ये पर्वते उत्तरदक्षिणश्रेण्योः यथायोगं षष्टिपञ्चाशनगराणि निविष्टानीति गाथाक्षरार्थः ।। भावार्थः कथानकादवसेयः, तच्चेदम्-अन्नया धरणो नागराया भगवंतं वंदओ आगओ, इमेहि य विन्नविअं, तओ सो ते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयस्स अस्थि किंचि दायब्वं, मा एयं जाएह, अहं तुब्भं भगवओ भत्तीए देमि, सामिस्स सेवा अफला मा भवउत्तिकाउं पढियसिद्धाणं गंधव्वपत्रगाणं अडयालीसं विजासहस्साई गिण्हइ, ताण इमाओ महाविञ्जाओ चत्तारि, तं जहा-गोरी गंधारी रोहिणी पन्नत्तित्ति, तं गच्छइ तुब्भे विज्जाहररिद्धीए सयणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org