________________
११४
आवश्यक मूलसूत्रम्-१
वृ-गमनिका आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसप्तदशं 'धान्य' शाल्यादि 'आम' अपक्कं 'ओमं न्यूनं च ‘भुंजीआ' इति भुक्तवन्त इति गाथार्थः । तथापि तु कालदोषात्तदपि न जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, भगवाश्चाह-हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति । अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकृत्[भा.७] ओमपाहारंता अजीरमाणंमि ते जिणमुर्विति ।
हत्थेहिं घंसिऊणं आहारेहत्ति ते भणिआ॥ गमनिका-ओभमप्याहारयन्तः अजीर्यमाणे 'ते' मिथुनका 'जिनं प्रथमतीर्थकरं उपयान्ति, सर्वावसर्पिणीस्थितिप्रदर्शनार्थो वर्तमाननिर्देशो, भगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः । किम् ?[भा.८] आसी अपाणिघंसी तिम्मिअतंदुलपवालपुडभोई ।
हत्थलपुडाहारा जइआ किर कुलकरो उसहो ॥ वृ-आसँश्च ते मिथुनका भगवदुपदेशात् पाणिभ्यां घष्टुं शीलं येषां ते पाणिघर्षिणः, एतदुक्तां भवति-ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं धापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुटे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य एवोच्यन्ते। पुनः कियताऽपि कालेन गच्छता अजरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्; हस्ततलपुटेषु आहारो विहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः । तथा कक्षासु स्वेदयित्वेति, यदा किल कुलकरो वृषभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः ।। पुनरभिहितप्रकारद्व्यादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त धृत्वा पुनर्हस्ताभयां घृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्तपुटेषु च मुहूर्त घृत्वेत्यादिभङ्गकयोजना, केचित् प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटघृतस्य सौकुमार्यत्वानुपपत्तेः, श्लक्ष्णत्वग्भावत्वाद्वा अदोष इति, द्वितीययोजना पुनः-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु च धृत्वा कक्षासु स्वेदयित्वेति ।। अमुमेवार्थमुपसंहरन्नाह[भा.९] घंसेऊणं तिम्मण घंसणतिम्मणपवालपुडभोई।
घंसणतिम्मपवाले हत्थउडे कक्खसेए य॥ वृ. भावार्थ उक्त एव, नवरम् उक्तार्थक्षरयोजना-घृष्ट्वा तीमनं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतो वेदितव्य, 'घृष्टप्रवालपुटतीमितभोजिन' इत्यनेन द्वितीययोजनाक्षेपः, 'घृष्ट्वेति' तिमनं 'प्रवाल' इति प्रवाले तिमित्वा हस्तपुटे कियन्तमपि कालं विधाय भुक्तवन्त इति शेषः, इत्यनेन तृतीययोजनाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेन अनन्तराभिहितत्रययुक्त चतुर्भङ्गकयोजनाक्षेप इति गाथार्थः ॥ अत्रान्तरे[मा.१०] अगनिस्स य उढाणं दुमघसा दर्दू भीअपरिकहणं ।
__ पासेसुं परिछिंदह गिण्हइ पागं च तो कुणह ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org