________________
आवश्यक मूलसूत्रम्-१
अर्थाभिमुखो नियतो बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिक, विनयादिपाठात् अभिनिबोधशब्दस्य "विनयादिभ्यष्ठग्" इत्यनेन स्वार्थ एव ठक्प्रत्ययो, यथा विनय एव वैनयिकमिति अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वाअथवाऽभिनिबुध्यते तद् इत्याभिनिबोधिकं, अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपचारदित्यर्थः, अभिनिबुध्यते वाऽनेनत्याभिनिबोधिकं, तदावरणकर्मक्षयोपशम इति भावार्थः, अभिनिबुध्यते अस्मादिति चाऽऽभिनिबोधिकं, तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनिबोधिकं, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यवाद् अभिनिबुध्यत इत्याभिनिबोधिकं, आभिनिबोधिकं च तज्ज्ञानं चेति समासः । तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतं, तदावरण क्षयोपशम इत्यर्थः, श्रूयतेऽस्मादिति वाश्रुतं, तदावरणक्षयोपशम एव , श्रूयतेऽस्मिन्निति वा क्षयोपशम इति श्रुतं, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात्, श्रुतं च तज्ज्ञानं चेति समासः, चशब्दस्त्वनयोरेव तुल्यकक्षतोद्भावनार्थः, स्वाम्यादिसाम्यात्, कथम् ? य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य “जत्थ मइनाणं तत्थ सुयनाण" मिति वचनात्, तथा यावान्मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्रषष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण -
___ "दोवारे विजयाइसु गयस्स तिन्नच्चुए अहव ताई।
अइरेगं नरभविअं नाणाजीवाण सव्वद्धं ॥" यथा च मतिज्ञानं क्षयोपशमहेतुकं, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयम्, एवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षम्, एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरेवावधारयति, आभिनिबोधिकश्रुतज्ञाने एव परोक्षो इति भावार्थः। तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृतं परिच्छिद्यते, मर्यादया वेति, अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति वेति अवधिः, तदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिन्निति वेत्यवधिः, भावार्थः पूर्वदेव, अवधानं वाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोक्तज्ञानद्वयसाधर्म्यप्रदर्शनार्थः, स्थित्यादिसाधात्, कथम् ? यावान्मतिश्रुतस्थितिकाल: प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च, तावानेवावधेरपि, अतः स्थितिसाधात्, यथा मतिश्रुते विसर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति विपर्ययसाधात्, य एव च मतिश्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधर्म्यात्, विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञानत्रयं संभवतीति लाभसाधाच्च । ___ तथा मनः पर्यवज्ञानं, अयं भावार्थः - परिः सर्वतो भावे, अवनं अवः,अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यवनं वा पर्यव इति, मनसि मनसो वा पर्यवो मनः पर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनः पर्यवज्ञानं, अथवा मनसः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरं, तेषु ज्ञानं मनः पर्यायज्ञानं, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनमेवेति, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org