________________
पीठिका - [नि. ]
मङ्गलं चेति समासः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्रागमतो मङ्गलपरिज्ञानोपयुक्तो भावमङ्गलं, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावाद् इति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानम् अवगमो भाव इत्यनन्तरं, तत्र अर्थाभिधानप्रत्ययाः तुल्यनामधेयाः' इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरितिच यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञो सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, नचानाकारं तज्ज्ञानं, पदार्थन्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च, ज्ञानाज्ञानसुख दुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नादिना व्यभिचासत्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते -नोआगमतो भावमङ्गलम् आगमवर्जं ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वानोशब्दस्य, अथवा सम्यग्दर्शनज्ञानचारित्रोपयोगपरिणामो यः स नागम एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वानोशब्दस्य नोआगमत इत्याख्यायते, अथवा अर्हनमस्काराथुपयोगः खलगमैकदेशत्वात् नोआगमतो भावमङ्गलमिति ॥
ननु नामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च समानं वर्ततेः ततश्च क एषां विशेष इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते, तथा कर्तुश्च सद्भूतेन्द्राभिप्रायो भवति, तथा द्रष्टुश्च तदाकारदर्शनादिन्द्रप्रत्ययः, तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतु प्रवर्तन्ते, फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात्, न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति । यथा च द्रव्येन्द्रो भावेन्द्रस्य कारणतां प्रतिपद्यते, तथोपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवांश्च, न तथा नामस्थापनेन्द्रावित्ययं विशेषः । भावमङ्गलमेवैकं युक्तं, स्वकार्यप्रसाधकत्वात्, न नामादयः, तत्कार्याप्रसाधकत्वात्, पापवद् इति चेत्, न, नामादीनामपि भावविशेषत्वात्, यस्मादविशिष्टमिन्द्रादि वस्तु उच्चरितमात्रमेव नामादिभेदचतुष्टयं पतिपद्यते, भेदाश्च पर्याया एवेति, अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात्, तथा च मङ्गलाद्यभिधानं सिद्धाद्यभिधानं चोपश्रुत्य अर्हप्रतिमास्थापनां च दृष्ट्वा भूतयतिभावं भव्ययतिशरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामो जायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र नोआगमतोऽर्हन्नमस्करादि भावमङ्गलमुक्तं, अथवा नोआगमतो भावमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, असावपि च मङ्गलवन्नामादिचतुर्भदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत्, द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दी द्वादशप्रकारस्तूर्यसंघातः ।
भंभा मुकुंद मद्दव कडंब झल्लरि हुडुक्क कंसाला ।
काहलि तलिमा वंसो, संखो पणवो य बारसमो ।' तथा भावनन्द्यपि द्विधाआगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं, तच्चेदम्नि. (१) आभिनिवोहियनाणं सुयनाणं चेव ओहिनाणं च ।
तह मनपजवनाणं केवलनाणं च पंचमयं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org