________________
व्यवहार-छेदसूत्रम्-२-१०/२५१ कत्तियमित्ताई वा विरोहमविरोहजोग्गाई ।। वृ. तत्रापि यः परिणामकः स भणति कीदृशानि बीजान्यानयामि । विरोहयोग्यान्यविरोहयोग्यानि वा कियन्मात्राणि वा। भा. [४४५०] सोवि गुरूहि भणितो न ताव कज्जं पुणो भणिहामि।
हसितोव मए तासि वीमसंत्थ व भणितोसि॥ वृ. सोऽप्याज्ञापरिणामको गुरुभिर्भणितो नं तावदिदानी कार्यं यदा तु कार्य भविष्यति तदा पुनर्भणिष्यामः । अथवा हासितोसि मया तावदिदानी न पुनबीजैः प्रयोजनं यदि वा विमर्शार्थं तव विमर्शपरिक्षाणार्थं त्वमेव भणितोऽसि । सम्प्रत्यमोहनाधारि परीक्षामाहभा. [४४५१] पयमक्खमुद्देसं संधीसुतत्थ तदुभयं चेव ।
अक्खर वंजण सुद्धं, जहा भणितं सो परिकहेइ ॥ वृ. पदमक्षरमुद्देशं सन्धिमधिकारविशेषं सूत्रमर्थं तदुभयं च अक्षरव्यञ्जनशुद्धं पूर्वमवग्राहयति। किमेष ग्रहणधारणायोग्यः किं वा नेति अवग्राह्य ततो ब्रूते उच्चारय प्रेक्षे किमपि गृहीतं न वा किं वा गृहतिमपि कि स्मृतं किं वा नेति । तत्र यदि यथा भणितं तथा सर्व परिकथयति तदा ज्ञातव्य एष ग्रहणधारणे कुशल इति । भा. [४४५२] एवं परिच्छिऊणं जोग्गं नाउण पेसवे तं तु ।
. वच्चाहि तस्सगासं सोहिं सोऊण आगच्छ॥ वृ. एवं परीक्ष्य योग्यं ज्ञात्वा तं प्रेषयेत् सन्दिशति च ब्रज, तस्य साधोरालोचयितुकामस्य शोधिमालोचनां श्रुत्वा पुनरत्रागच्छ। भा. [४४५३] अह सो गतो उ तहियं तस्स सगासम्मि सो करे सोहिं।
दुगतिगचउविसुद्धं तिविहे काले विगडभावो । वृ.अथ प्रेषणानन्तरं यत्रालोचयितुकामो विद्यते तत्र गतस्तस्यागतस्य समीपे आलोचयितुकामः प्रशस्तेषु द्रव्यादिषुशोधिमालोचनां करोति। कथमित्याह-द्विकदर्शनातिचारं चारित्राचारमालोचयतीत्यर्थः । दर्शनग्रहणं ज्ञानग्रहणमपीति ज्ञानातिचारं चेत्यापि द्रष्टव्यम् । चारित्रातीचारालोचनेऽपि च द्विभेदा मूलगुणातिचारविषया उत्तरगुणविषया च तां करोति पुनस्त्रिकामाहा - रोपधीशय्याभेदत एकैकां त्रिप्रकारां चतुर्विशुद्धां प्रशस्तद्रव्यक्षेत्रकालभावोपेता त्रिविधे काले अतीते प्रत्युत्पन्ने च यत्सेवितमनागते च यत्सेविष्ये इत्यध्यवसितं विकयभाव: प्रकटभावोऽप्रतिकुञ्चन इत्यर्थः । सम्प्रति द्विकादिपदजातस्य व्याख्यानं किंचिदन्यथा किंचित्तदेव दर्शयति। भा.[४४५४] दुविहं दप्पकप्पे तिविहं नाणाइणं तु अट्ठाए ।
दव्वे खेत्ते काले, भावे य चउव्विहं एयं ॥ भा. [४४५५] तिविहे अतीअकाले पच्चुप्पन्ने विसेसियं जं तु ।
सेविस्स वा एस्से पागडभावो विगडभावो । वृ.द्विविधां शोधि करोति दर्प दर्पविषयां कल्पे कल्पविषयां । त्रिविधां ज्ञानादीनां ज्ञानदर्शनचारित्राणां अर्थायातीचारविशद्धिलाभाय करोति । प्रशस्ते द्रव्ये प्रशस्ते क्षेत्रे प्रशस्ते काले प्रशस्ते भावे एतच्चतुर्विधं विशोधनं दृष्टव्यं, तथा त्रिविधे अतीते प्रत्युत्पन्ने च काले यत्सेवितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org