SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ उद्देशक:-१०, मूलं-२५१, [भा. ४३९८ ] ४९९ तेसिं पिय वुच्छेदो चोद्दसपुव्वीण वच्छेए।। वृ.प्रथमे च ऋषभनाराचलक्षणसंहनने वर्तमाना धृत्या शैलकुड्यसमानाः पादपोपगमनं प्रतिपत्रा: पादपोपगमनं प्रतिपद्यन्ते । तेषामपि च पादपोपगमप्रतिपत्तृणां चतुर्दशपूर्विव्यवच्छेदे व्यवरच्छेदो भवेत्। भा.[४३९९] दिव्वमनुया उ दुग तिग अस्से पक्खेवगं सिया कुज्जा। वोसट्ट चत्तदेहो अहाउयं कोइ पालेज्जा !! व.देवा मानुष्या वा अनुलोभानि प्रतिलोभानि वा द्रव्याणि द्विकमनुलोभप्रतिलोमलक्षणोभयसहितं तदेवत्रिकमथवा सचित्तमचित्तं वा द्विकं तदेव हि मिश्रसहितं त्रिकं तस्य द्विकस्य त्रिकस्यवा आस्ये मुखे प्रक्षेपं कुर्युः । स तेन द्वारेण मुखे प्रक्षिप्तेन व्युत्सृष्टः प्रतिबन्धाभावतस्त्यक्तपरिकर्मकरणतो देहो येन स व्युत्सृष्ट त्यक्तदेहः। कोऽपि यथायुर्यथावस्थितमात्मीयमायुः पालयति द्विकत्रिकाहारव्याख्यानार्थमाहभा.[४४००] अनुलोभा पडिलोमा दुगं तु उभयसहिया तिगं होति। अहवा चित्तमचित्तं दुगं तिगं मीसगसमग्गं । वृ.अनुलोमानि द्रव्याणि प्रतिलोमानि चेति द्विकं तान्येवोभयसहितानि त्रिकमथवा सचित्तमचित्तमिति द्विकं तदेव मिश्रसमग्रं त्रिकमिति। भा.[४४०१] पुढविदग अगनिमारुय वणस्सइ तासु कोवि साहरइ। __वोसट्टचत्तदेहो अहाउयं कोवि पालेज्जा॥ वृ.कोऽपि पादापोपगमं प्रतिपन्नं पृथिव्यां पृथिवीकायमध्ये उदके अप्कायेऽग्नौ मारुते वायुकाये वनस्पतिषु त्रसेषु च संहरन्ति । स च तथा संहतो व्युत्सृष्टत्यक्तदेहो यथायुः कोऽपि पालयति। भा.[४४०२] एगंतनिज्जरा से दुविहा आराधना धुवा तस्स । अंतकिरियं व साहू करेज्ज देवोववत्तिं वा ।। वृ. एकान्तेन स तथास्थितस्य निर्जरा भवति तथा तस्य धुवा द्विविधा सिद्धिगमनयोग्या कल्पोपत्तियोग्या चाराधना यया साधुरन्तक्रियां वा कुर्यात् देवोपपत्ति वा। भा.[४४०३] मज्जणगंधं पुष्फोवयार परिचारणं सिया कुज्जा। वोसचत्तदेहो अहाउयं कोइ पालेज्जा ।। वृ.केचित् रूपातिशयलुब्धाः तस्य कृतपादपोपगमस्य मज्जनं स्नानं ततः पटवासादिगन्धं तदनन्तरं पुष्पोपचारं ततः परिचारणं गले लगित्वा परिशयनपरिचुम्बनादिरूपं स्यात् । कदाचित् कुर्यात्। तत्र सव्युत्सृष्टत्यक्तदेहो यथायुः कोऽपि पालयति। अरिक्तद्विष्टः सन सम्यक्तत्सहमानो यावज्जीवमवतिष्ठते। भा.[४४०४] पुव्वविय पेम्मेण देवो देवकुरु उत्तरकुरासु। ___ कोई तु साहरेज्ज सव्वसुहार जत्थ अनुभावा ।। वृ.पूर्वभविकेन पेम्णा कोऽपि देवो यत्र अनुभवाः सर्वे शुभास्तासु देवकुरुषूत्तरकुरुषु वा संहरेत् । स च तथा तत्र संहृतो व्युत्सृष्टत्यक्तदेहो यथायु कोऽपि पालयति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy