SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम् - २ - १० / २५१ पादपोपगमनमुच्यते तदपि प्रव्रज्यादितीर्थाव्यवच्छेदपर्यन्तं कृत्वा पञ्च तपः सूत्रादि तोलयित्वा च प्रतिपद्यते । तत्र नियमतो निःप्रतिकर्म निश्चलंया, तथाहि ऊर्ध्वस्थानेन उपवेशनेन पार्श्वेण वाऽन्येन वा येन स्थानेन स्थितः स यावज्जीवमपि तेन स्थानेन तिष्ठति न पुनरन्यत्स्थानं तस्य कर्तुं तस्य स्वप्रयोगेण कल्पते । तच्च द्विधा-निर्धारिमं नाम यत् ग्रामदीनामन्तः प्रतिपद्यते ततो हि मृतस्य स ततस्तस्य शरीरं निष्काशनीयं भवति । अनिर्धारितं नाम यत् ग्रामादीनां बहिः प्रतिपद्यते । सम्प्रति पादपोपगमस्य निरुक्तमाह भा. [४३९२ ] पातोवगमं भणियं समविसमे पायवो जहा पडितो । नवरं परप्पउगा कंपेज्ज जहा चल तरुव्व ॥ वृ. पादपपोगमं नाम भणितं यथा समे विषमे वा पादपः पतितस्तथैवावतिष्ठते तथा यो यथा समे विषमे वा पतितः स यावज्जीवं तथा तिष्ठति । नवरं परप्रयोगात् कम्पेत यथा तरुः परप्रयोगाच्चलः । पादपस्येवोपगमोऽभ्युपगमः पतनस्य यत्र तत्तथेति व्युत्पत्तिः । तसपाणीय रहिए विच्छिन्नवियार थंडिल विसुद्धे । भा. [४३९३] निदोसा निद्दोसे अवेंति अब्भुज्जया मरणं ॥ वृ. विशुद्धे स्थण्डिले निर्दोषे निर्दोषत्वमेवाह - त्रसप्राणबीजरहितेऽविस्तीर्णविचारे विपुलप्रचारे यत्र कृष्यमाणस्याप्यस्थण्डिलगमनदोषा न भवन्ति । तत्र निर्दोषाः साधवोऽभ्यु`द्यतमरणं पादपोपगमनमरणमुपयन्ति प्रतिपद्यन्ते । भा. [४३९४] ४९८ पुव्वभवियवेरेणं देवो साहरति कोवि पायाले । मासो चरमसरीरो न वेयणं किंचि पाविहिति ॥ वृ. पूर्वभवकर्मवैरेण कोऽपि देवस्तं प्रतिपन्नपादपोपगमनं पातालकलशेषु संहरेत् । नासौ 'चरमशरीर न कांचिदपि वेदनां प्राप्स्यतीति कृत्वा स तथा हृतः सम्यक् तमुपसर्गं सहते । न केवलमेनमन्यानापि तथा चाह I भा. [४३९५ ] उत्पन्ने उवसग्गे दिव्वे मानुस्सए तिरिच्छे य । सव्वे पराइणित्ता पाओवगया परिहरति ॥ वृ. उत्पन्नान् उपसर्गान् दिव्यान्मानुषान् तैरश्चांश्च सर्वन् पराजित्य पादपोपगता: प्रवितरन्ति । भा. [४३९६ ] जह नाम असीकोस अन्नो कोसे असीवि खलु अन्ने इय मे अन्नो देहो अन्नो जीवोत्ति मन्त्रेति ॥ वृ. यथा नाम असिः खङ्गं कोशे प्रत्यागारे वर्तते । तत्रान्यः पृथग् खलु कोशोऽन्यो असिरिति । एवममुना दृष्टान्तप्रकारेण ममान्यो देहोऽन्यो जीवः पर अ प्रभवति देहेन जीव इति न काचिन्मे क्षतिरिति मन्यते । तथा मननाच्च सम्यक् उपसर्गान् सहते । पुव्वावरदाहिणउत्तरेहिं वाएहिं आवयंतेहि। भा. [४३९७] जहन वि कंपइ मेरू तह ते ज्झाणाओ न चलंति ॥ वृ. यथा मेरुः पूर्वापरदक्षिणोत्तरैर्वा तैरापतद्भिर्न च कम्पते तथा ते पादपोपगता उपसर्गनिपातेऽपि ध्यानान्न चलन्ति । भा. [४३९८ ] पढमंमि य संघयणा वट्टंतो सेलुकुड्ड समाणा । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy