________________
उद्देशक:-१०, मूलं-२५१, [ भा. ४३७२ ]
४९५ तेषां मार्गणगवेषणार्थे तत्प्रत्यासत्रग्रामाणां पञ्चानां दशानां वा घातनं दण्डनं कुर्यात् ।
सम्प्रति अन्तर्बहिर्व्याघात इति द्वारमाह. भा.[४३७३] न पगासिज्ज लहुत्तं परीसह उदएण हुज्ज वाघातो ।
उप्पन्ने वाघाते जो गीयत्थाण उववातो।। वृ.स भक्तप्रत्याख्याता गृहिणां न प्रकाश्यते । यतः कदाचित्परीषहस्योदयेन प्रत्याख्यानस्य व्याघातो विलोप: स्यात, तत: समस्तस्यापि प्रवचनस्य लघुता जायते, उत्पद्यते च व्याघाते यो गीतार्थानामुपाय: स प्रयोक्तव्य इति वाक्यशेषः । भा. [४३७४] को गीयाण उवाओ संलेहगतो उविज्जए अन्नो।
अत्थहतो जो अन्नो इतर उ गिलाण पडिकर्म ।। भा.[४३७५] वसमो वा टाविज्जइ अन्नसास्सतीए तंमि संथारे।
कालगउत्तिय काउं संज्झाकालम्मि नीणंति ।। वृ. भक्तप्रत्याख्याता द्विविध एकोऽनेकश्च। ते द्विविधा ज्ञाता अज्ञाताश्च । ज्ञातो नाम दण्डिकादीनां प्राकृतजनानां च विदितस्वरूपो यथा यावज्जीवमेव भक्त प्रत्याख्यातवान् तद्विपरीतोऽज्ञातः । तत्र यदि ज्ञातो भक्तपरिज्ञां न निस्तरति,तदा को गीतार्थानामुपायः प्रयोक्तव्यः ? उच्यते- तदा स जवनिकान्तरितः स्थापितो यो वान्य उत्सहते स स्थाप्यते इतरस्य तु भक्तपरिज्ञाव्याघातवतो ग्लानपरिकर्म क्रियते । अथान्यसंलेखगतो न विद्यते नाप्यन्यः कश्चिदुत्सहते तदान्यस्यासत्यभावे वृषभ: स्थाप्यते। तस्मिन् पूर्वभक्तप्रत्याख्यापकसक्ते संस्तारे ततो जवनिकान्तरितया लोकवन्दापनादि यतनया स करोति। यस्तु भक्तपरिज्ञाविलोपवान् सोऽल्पसागरिकमेकांते ध्रियते धृतस्य च ग्यानपरिकर्म तावत् क्रियते यावत् प्रथमालिकां करोति ततो जनमध्ये रात्रौ स कालगत इति प्रकाशः । स्वयं गमनेन सहायप्रदानतो वा सन्ध्याकाले तं निष्काशयन्ति । एतदेव भावयति - भा.[४३७६] एवं तन्नायम्मी दंडगमादीहिं होइ जयणा उ।
सयं गमनपेसणं वा खिसण चउरोनुग्धाया॥ वृ. एवमुक्तेन प्रकारेण दण्डिकादिभिर्ज्ञायते भवति यतनां ज्ञातव्या प्रथमालिकाकरणे च स्वयं सर्वेषां साधूनां गमनं भवति। यदि वा स सहायस्यान्यत्र तस्य प्रेषणं यस्तु तं भक्तप्रत्या-- ख्यानप्रतिभग्न एष इति तस्य प्रायश्चित्तं चत्वारो मासा अनुद्घाता गुरुकाः । यस्तु न ज्ञातः स यदि न निस्तरति तथापि न प्रवचनस्योडाहः । गतं सपराक्रम भक्तप्रत्याख्यानमपराक्रममाहभा. [४३७७] सपरिक्कमे जो उ गमो नियमा अपरक्कमंमि सो चेव ।
नवरं पुन नाणतं खीणे जंघाबले गच्छे ।। वृ. सपराक्रमे भक्तप्रत्याख्याने यो गमोऽभिहितः स एवापराक्रमेऽपि नियमाद्वेदितव्यो नवरं पुनरिदं नानात्वमपराक्रमां क्षीणे जङ्घाबले भवति स्वगच्छे च । तथाहि क्षीणजङ्घाबले वृद्धत्वेन मर्तुकामः स गच्छे भक्तं प्रत्याचष्टे। सम्प्रति व्याघातिममाहभा. [४३७८] एमेव आनुपुवी रोगायंकेहिं नवरि अभिभूतो।
बालमरणंपि सिया मरिज्जउ इमेहिं हेउहिं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org