SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ उद्देशक:-१०, मूलं-२५१, [भा. ४२७७ ] ४७९ तृतीयस्य प्रतिषेधः कर्तव्यः । किं कारणमिति तेदत आह-अपहुच्चतेत्यादि, न प्रभवन्ति न प्राप्यन्ते त्रयाणामपि योग्या निर्यापका न च संस्तरन्ति । ततोऽप्रभवः अप्राप्यमाणेषु तेषु संस्तारणस्यास्य वा सति तस्य तृतीयस्य तयोर्वाग्रेतनयोस्तेषां वा निर्यापकाणां असमाधिरुपजायते । प्रथमं सन्ति बहवो निर्यापका: संस्तरन्ति च तदा न कश्चिदनन्तरो दोषः प्रसजतीति तृतीयामपि प्रतीच्छन्ति। भा.[४२७८] हवेज्ज जइ वाधातो बितियं तत्थ ठावए। चिलिमिलि अंतरा चेव बहि विंदावए जनं ॥ वृ. यदि तस्य कृतभक्तप्रत्याख्यानस्य व्याघातो भवेत् व्याघातो नाम प्रत्याख्यानेनासंस्तरणं स च बहिः सर्वत्र ज्ञातो दृष्टश्च भूयसा लोकेन एष कृतभक्तप्रत्याख्यान इति, ततः एषा यतना कर्तव्या। योऽसौ द्वितीयः संलेखनां कुर्वन् तिष्ठति स तत्र स्थाप्यते तस्यान्तरा चिलिमिलि कर्तव्या। ततो यदि यै ातो दृष्टः ते वन्दकाः समागच्छेयुः तदा स तेषां न दर्शयितव्यः किन्तु ते भण्यन्ते बहिः स्थिता यूय वन्दध्वमिति । एवं बहिः स्थितं जनं वन्दापयेत् । गतमन्यद्वारम् भा.[४२७९] अनापुच्छा एगस्स पडिच्छेवं जती गुरू गुरुगा । चत्तारि वि विनोया गच्छमनिच्छंते जं पावे ॥ वृ. गच्छस्यानापृच्छया यदि तं भक्तं प्रत्याख्यातुकामं गुरुः प्रतीच्छति अभ्युपगच्छति तदा तस्य प्रायश्चित्तं चत्वारो गुरुका विज्ञेयाः गच्छे वाऽनिच्छति स भक्तप्रत्याख्याता यत्प्राप्नोति असमाधिप्रभृतिकं तन्निमित्तमपि तस्य प्रायश्चित्तं(ततः) गच्छ आपृष्टव्याः । किं कारणमिति चेदुच्यते । स गच्छसाधवः सर्वं परिभ्रमन्तो जानते, यथा एतस्मिन् क्षेत्रे एतत्सुलभमेतत् दुर्लभ ततो मुखः पृच्छति किमेतस्मिन् क्षेत्रे यानि कृतभक्तप्रत्याख्यानस्य समाधिकरणानि द्रव्याणि तानी सुलभानि किं वा दुर्लभानि । तत्र यदि सुलभानि तत् भक्तप्रत्यख्यानं प्रतिपाद्यते । अथ दुर्लभानि तहि प्रतिषिध्यते । अन्यत्र गत्वा प्रतिपद्यस्वेति, अनापृच्छायां दोषानाहभा.[४२८०] पानगादीनि जोगाणि जानि तस्स समाहिए। अलंभे तस्स जा हानी परिक्कोसा य जायणे॥ भा.[४२८१] असंथरं अजोग्गा वा जोग्गावाही व ते भवे । एसणाए परिक्कोसा जाया तस्स विराधना ॥ वृ. गणस्यानापृच्छायां यानि तस्य कृतभक्तप्रत्यख्यानस्य समाहिते समाधाननिमित्तानि पानकादीनि योग्यानि आदिग्रहणेन भक्तपरिग्रहः तेषामलाभे तस्य प्रत्याख्यातुः यदि निःसमाधि: परिभ्रंश उपजायते, यश्च गच्छसाधूनां योग्या पानकादेर्याचने परिमार्गणे परिक्लेशस्तथा असंस्तरः संस्तरणाभावे यः परिक्लेशो अयोग्या वा तत्र निर्यापका भवेयुः योगवाहिनोप्येते तत्र योगवाहिनां समाधिकारकाणि पानकादीन्युद्गमानि शुद्धानि मृगयमाणानां यः परिक्लेशो वाऽयोग्यनिर्यापकसंपर्कतस्तस्य कृतप्रत्याख्यानस्य विराधना अनागाढदिपरितापना असमाधिमरणादिकं तत्सर्वं तन्निमित्तमतो गच्छस्य पृच्छा कर्तव्या । गतमनापृच्छाद्वारमधुना परीक्षाद्वारमाहभा. [४२८२] अपरिच्छाणंपि गुरुगा दोण्हवि अन्नोन्नयं जहा कमसो। होइ विराधना दुविहा एक्को एक्को वजं पावे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy