________________
४७८
व्यवहार-छेदसूत्रम्-२- १०/२५१ प्रायश्चित्तं चत्वारो गुरुकाः । अथ स्वस्य परस्य चातिशयादिर्न विद्यते ततोऽसति अविद्यमाने आभोगे यदि क्षेमं सभिक्षं तदा निर्व्याघातेन प्रतिपत्तिः कारयितव्या, वर्षाकाले प्रतिपत्तिः कार्यते इत्यर्थः । एतदेवाहभा.[४२७४] सव्वेव चिरं वासो वासावासे भवसि नं।
तेन तस्स विसेसेन वासासु पडिवज्जाणा ।। वृ. वर्षारात्रे वर्षोदकर्दमादिकारणतश्चतुरः पञ्चषट् वा मासानुग्रामादीनामुत्थानं न भवति, क्षेमं सुभिक्षं च स्वभावो वर्तते तपस्विनां च वर्षावासे चिरं वासः स्वयमेव प्रवृत्तस्तेन कारणेन तस्य भक्तप्रत्याख्यातुकामस्य विशेषतो भक्तप्रत्याख्यानप्रतिपादनके कर्तव्या, पूर्वमिदमुक्तं स्वयं देवता कथयति तच्च निदर्शनमाहभा. [४२७५] कंचनपुरगुरु अन्ना देवय रुवणा य पुच्छ कहणा य ।
पारणगखीररुहिरं आमंतण संघानसणया॥ वृ. कलिङ्गेषु जनपदेषु काञ्चनपुरे नगरे बहुश्रुताः बहुशिष्यपरिवाराः केचिदाचार्याः विहरंति, ते अन्यदा शिष्येभ्यः सूत्रपौरुषीं अर्थपौरुषीं च दत्वा संज्ञाभूमौ गतास्ते च गच्छन्तोऽपांतराले अतिशये महापादपस्याध: कांचिद्देवतां स्त्रीरूपेण रुदन्ती पश्यन्ति। एवं द्वितीयतृतीयदिनेऽपि ततो गुरुभिर्जानशडैः पुष्टं कस्मात् रोदिषि । तस्याः कथनमहमेतस्य नगरस्याधिष्ठात्री। एतच्च सर्व नगरमचिराज्जलप्रवाहेण विनंक्ष्यति। अत्र च बहवः स्वाध्यायवन्तो वर्तन्ते ततो रोदिमि। कोऽत्र प्रत्यय इति पृष्टे सा प्राह-अमुकस्य क्षपकस्य पारणके क्षीरं रुधिरंभविष्यति, तच्च यत्र गतानां स्वभावीभूतं भविष्यति तत्र क्षेमम् वसितव्यमिति । एवमुक्ता सा, एतद्वितीयदिने क्षपकस्य पारणके क्षीरं रुधिरीभूतं । तत: समस्तस्यापि संघप्रधानवर्यस्यामंत्रणं पर्यालोचनं च ततोनशनं समस्तस्यापि सङ्घस्येति । यदि पुनरशिवाद्युत्थाने विज्ञाते यदि भक्तं प्रख्यापयति तदा सगच्छसाधवः प्रवचनं च तेन त्यक्तं कथमित्याहभा.[४२७६] असिवादीहिं वहता तत्थ च कारणं च संजया चत्ता।
उवहिं विनायच्छम्मण चत्तो सो पवयणं चेव ।। वृ. यदि अशिवायुपद्रवं ग्रामाद्युत्थानं च ज्ञात्वा भक्तं प्रख्यापयति तदा तस्मिन् निर्यापिते एवाशिवायुत्थाने जाते यदि संयतास्तत्प्रतिबन्धतो न निर्गच्छन्ति। गच्छन्तो वा यदि तं कृतभक्तप्रत्याख्यानं तस्योपकरणं च वहति तदा ते संयता अशिवादिभि: कारणैस्तमुपकरणं च वहन्तस्त्यक्ताः अथोपधि विनिर्वहन्ति त्यक्त्वा वा सर्वथा फ्लायन्ते तदा स भक्तप्रत्याख्याता परित्यक्तः। स च त्यक्तः सन् उड्डाहं कुर्यात् । मां त्यक्तवा ते गता इति तदा प्रवचनस्य महती हीलनेति प्रवचनं त्यक्तं तस्मादशिवायुत्थाने अपारगे च तस्मिन् ज्ञाते स भक्तं न प्रत्याख्यातयितव्यः ।
गतमाभोगेन द्वारमिदानीमन्यद्वारमाहभा. [४२७७] एगो संथारगतो बिइतो संलेहे तइय पडिसेहो,
अपहुच्चंत समाही तस्स वा तेसिं च असतीए ।। व. यदि तत्र द्वौ जनावग्रे स्तस्तद्यथा एकः संस्तारगतः संस्तारगतो नाम संलिख्यकृतप्रत्याख्यानो द्वितीयः संलिखति संलेखनां करोति तथा तृतीयो यद्यन्य उपतिष्ठति तर्हि तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org