________________
उद्देशक :- १०, मूलं - २५१, [ भा. ४१६५ ]
४६१
वृ. स हि परोक्षज्ञानी यदृच्छया व्यवहरन् कदाचिदूनमधिकं वा प्रायश्चित्तं दद्यात् ततो वा ऊनाधिके प्रायश्चित्ते दाने मार्गविराधना मोक्षपथसम्यग्दर्शनज्ञानचारित्रविराधना जिनैरुक्ता तया स दाता न शुद्धयति । स्वयमशुद्धश्च कथमन्यं शोधयेदिति भावः अथ सोऽपि सूत्रबलेन प्रायश्चित्तं ददाति तत्कथं शोधयेदिति भावः तदप्यसम्यक् सूत्रार्थंस्थाप्यपरिज्ञानात् तथा चाहअत्थ पडुच्चसुत्तं अनागयं तं तु किंचिआमुसति । अत्थोवि कोइसुतं अनागयं चेव आमुसति ।।
-
भा. [४१६६ ]
वृ. अर्थं प्रतीत्य किंचित्सूत्रमनागतमेव भवति, किंचित्पुनः सूत्रं स्वस्थानगतं वा अर्थमामृशति, विचित्रासूत्रस्य वृत्तिरिति वचनात् अर्थोपि कश्चित् सूत्रमनागतं वामृशति, एतच्च सम्यग् 'जानति चतुर्दशपूर्वधराः गतान्ये ततः संप्रति सूत्रार्थस्थाप्यज्ञानात् न प्रायश्चितदानशुद्धिस्तदभावाच्चानिर्यापकाणामप्यसिद्धिः संप्रति देता वि न दीसंति इत्यादि व्याख्यार्थमाहदेंतावि न दीसंती मास चउमासिया उ सोहीतो । कुणमाणे य विसोहि न पासिमो संपइ केई ॥
भा. [४१६७ ]
वृ. मासिक चातुर्मासिकीं उपलक्षणमेतत् । पञ्चमासिक्यादिमपि वा शोधिं सम्प्रति केचित् ददतोऽपि न दृश्यते । नापि काञ्चित् तां मासिकीं चातुर्मासिकीं वा कुर्वाणान् संप्रति पश्यामः । सोहीए य अभावे देताण य करेंतगाण अभावे । संप काले तित्थं सम्मत्तनाणेहिं ॥
भा. [४१६८ ]
वृ. उक्तप्रकारेण शोधेरभावे शोधिं ददता कुर्वतां वा अभावे सम्प्रति काले तीर्थं वर्तते सम्यक्त्वज्ञानाभ्यां ।
भा. [४१६९ ]
एवं तु चोइयम्मी आयरितो भणइ न हु तुमे नायं । पच्छित्तं कहियंतू किं धरती किं व वोच्छिन्नं ॥
वृ. इदमुक्तेन प्रकारेण चोदिते प्रश्ने कृते सति आचार्यो ब्रूते नहु नैव त्वया ज्ञातं तथा प्रायश्चित्तं प्रथमत: कोक्तं वा संप्रति प्रायश्चित्तस्य धरते विद्यते किं वा व्यवच्छिन्नं तत्र प्रथमतो यत्र प्रायश्चित्तमभिहितं तदभिधित्सुराह
भा. [४१७० ] सव्वं पिय पच्छित्तं पच्चक्खाणस्स ततिय वत्थुमि । तत्तो वि य निच्छूढा पक्कप्पकप्पो य ववहारो ॥
वृ. सर्वमपि प्रायश्चित्तं नवमस्य प्रत्याख्यानाभिधस्य पूर्वस्य तृतीये वस्तूनि तत एव च निर्व्यूढं दृष्टं प्रकल्पो निशीथाध्ययनं कल्पो व्यवहारश्च । सम्प्रति किं धरती किं च वोच्छिन्नमित्यस्य व्याख्यानार्थमाह
भा. [४१७१ ]
सपयरूवण अनुसज्जणा य दसचोद्दस अट्ठ दुप्पसेह | अत्थि न दीसइ धणिएण विना तित्थं च निज्जवए ॥
वृ. स्वपदं नाम निजं स्थानं तच्च प्रज्ञापकस्य प्रायश्चित्तं तथा हि चारित्रस्य प्रवर्तकः प्रज्ञापक उच्यते । प्रज्ञापनां चातीवाप्रायश्चित्तदान इति स्वपदं प्रज्ञापकस्य प्रायश्चित्तं तस्य प्ररूपणा कर्तव्या । तथा यावच्चतुर्दशपूर्विणः तावद्दशानांमपि प्रायश्चित्तानामनुपजना अष्टानामन्तिमविकल्पानां यावत् दुःप्रसभ आचार्यस्तावदनुषंजना यदप्युच्यते ददतः कुर्वाणा वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International