________________
४४६
व्यवहार - छेदसूत्रम् - २- १०/२५१ पर्यायाशुद्धा तथा यदि प्रतिसेवनानुलोममालोचयति तदा सा क्रमशुद्धा उत्क्रमेणालोचयतः क्रमाशुद्धा । तथा यद्यत्र जनपदेऽध्वनि वा प्रतिसेवितं तत्तथैव आलोचयतः क्षेत्रशुद्धा आलोचना जनपदे प्रतिसेवितमध्वनि कथयतः क्षेत्राशुद्धा । यथा यत् यदा दुर्भिक्षे सुभिक्षे वा दिवारात्रौ वा प्रतिसेवितं तत्तदालोचयतः कालशुद्धा सुभिक्षे प्रतिसेव्य दुर्भिक्षे कथयतो रात्रौ वा प्रतिसेव्य दिवसे कथयतः काला शुद्धा । तथा येनानाभोगादिना सेवितं तं भावं कथयतो भावशुद्धा, उपेत्य प्रतिसेव्यानाभोगादिना कथयतो भावाशुद्धा । सम्प्रति भावमेवोपदर्शयति
[भा. ४०५३]
सहसा अन्नाणेन व भीएण व पेल्लिएण व परेण । वसनेन पमादेन व मूढेन व रागदोसेहिं ।।
वृ- तेन प्रतिसेवकेन सहसा अज्ञानेन वा परेण वा प्रेरितेन वा व्यसनेन वा द्यूतादिना प्रमादेन वा मूढेन वा रागद्वेषाभ्यां वा प्रतिसेव्य यदि तथैवालोच्यते प्रायश्चित्ताय मे ददाति नान्यथेति वाक्यशेषः । [भा. ४०५४] पुव्वं अपासिउणं छुढे पायंमि जं पुणो पासे । न य तरइ नियत्तेउं पायं सहसा करणमेयं । ।
वृ- पूर्वमग्रेतनप्रदेशे कुलिङ्गिनमदृष्ट्रा क्षिप्ते उत्पादिते पादे यत्पुनः पश्यति कुलिङ्गिनं समापतितं न पादं निवर्तयितुं शक्नोति तत एवं यत्तस्य व्यापादनमेतत्सहसाकरणं । साम्प्रतमज्ञानमाहअन्नंयरपमाएणं असंपउतस्स नोवउत्तस्स ।
[भा. ४०५५ ]
इरियासु भूयत्थे अवतो एयमन्त्राणं ।।
वृ- पञ्चानां प्रमादानामन्यतरेणापि प्रमादेनासंप्रयुक्त स्याक्रोडीकृतस्यात एव ईर्यादिषु समितिषु भूतार्थेन तत्वतोऽवर्तमानस्य यद्भवनमेतदज्ञानं अधुना भीएण व पेल्लिएण व परेण इत्यस्य
व्याख्यानमाह
[भा. ४०५६ ] भीतो पलायमाणो अभियोगभएन वावि जं कुज्जा । पडितो वाऽपडितो वा पेलिज्जउ पेल्लिउ पाणे । ।
वृ- अभियोगभयेन भीतः पलायमानो यत् कुर्यात् प्राणव्यपरोपणादि तत् भीतेनेति द्रष्टव्यम् । तथा परेण प्रेरितः सन्पतितोऽपतितो वा प्राणान् द्वीन्द्रियादीन एकेन्द्रियान्वा प्रेरयेत ।
सम्प्रति व्यसनादिपहानि व्याचष्टे ।
[भा. ४०५७ ]
जूयादि होइ वसनं पंचविहो खलु भवे पमादोउ ।
मिच्छत्तभावना उ मोहो तह रागदोसाय ।।
बृ- द्युतादि भवति व्यसनं, प्रमादः खलु मद्यादिभेदाद्भवति पञ्चविधः, मिध्यात्वं भावना मोहः रागद्वेषाः सुप्रतीताः ।
[भा. ४०५८ ]
Jain Education International
एएसिंद्वाणाणं अन्नयरे कारणे समुप्पन्ने । तो आगमवीमंसं करेंति अत्ता तदुभएणं । ।
वृ- एतेषामनन्तरोदितानां सहसाप्रभृतीनां स्थानानामन्यतरस्मिन्कारणे समुत्पन्ने सति आलोचनायां प्रदत्तायामागमविमर्शमाप्ता उभयेन सूत्रार्थलक्षणेन कुर्वन्ति । यथायं सहोऽयमसहः अयमेतावता शोत्स्यति अयं नेति । अथवा किमनेन सम्यगालोचितं किं वा नेति ।
साम्प्रतमागमविमर्शमेव व्याख्यानयति
For Private & Personal Use Only
www.jainelibrary.org