________________
उद्देशक :- १०, मूल - २५१, [भा. ४०३६]
४४३ एवं श्रुतज्ञान्यापि चतुर्लक्षणं द्रव्यक्षेत्रकालभावरूपं श्रुतबलेन जानाति । तत एतेऽप्यागमव्यवहारिण उच्यन्ते एतदेवं प्रस्तुतं प्रायश्चित्त-शुद्धयधिकारमधिकृत्य योजयति । [भा.४०३७] पणगं मासविवड्डीमासगहानी य पणगहानीय ।
एगाहे पंचाहं पंचाहे चेवएगाहं ।। [भा.४०३८] रागदोसविवड्डि हाणिवा नउदेतिपच्चक्खी ।
चोद्दसपुव्वादीविहुतहनाउंदेति हीनहियं ।। वृ-यथाप्रत्यक्षिणः प्रत्यक्षागमज्ञानिनस्तुल्पेऽप्यपराधेपञ्चकपञ्चकयोग्ये एकस्य पञ्चकंददति | अपरस्य रागद्वेषविवृद्विमुपलभ्य मासेन मासाभ्यां मासैर्वा वृद्धिं प्रयच्छन्ति । उपलक्षणमेतत् मूलमनवस्थाप्यं पाराञ्चितं वा यच्छन्ति । यथा तुल्येऽपि पाराश्चितं योग्यापराधे एकस्य पाराञ्चितमपरस्यानवस्थाप्यं मूलं च्छेदं वा मासेन मासाभ्यां मासै र्वा हान्या तपो वा च शब्दात् पञ्चकं यावदन्ते नमस्कार सहितं हा दुष्ठुकृतं हा दुष्टुकारितं हा दुष्ठु अनुमोदितमित्येवं वैराग्यभावनातो रागद्वेषहानिं भूयसीमति भूयस्तारामुपलभ्य प्रयच्छन्ति, तथा कस्यचित् भासप्रतिसेवनायामल्पां रागद्वेषहानिमुपलभ्य पञ्चकहान्या मासिकं ददति पञ्चविंशतिं दिनानि ददतीत्यर्थः । तथा एकाहनाम अभक्तार्थ प्रतिसेविते पञ्चाहं ददतिपञ्चाहे वा प्रतिसेविते एकाहमुपलक्षणत्वादाचाम्लमेकाशनं पूर्वार्द्ध निर्विकृतं पौरुषी नमस्कारसहितं वा प्रयच्छन्ति । एवं चतुर्दशपूर्वादयोऽपि हुनिश्चितंरागद्वेषहानिवृद्धी उपलभ्य हीनमधिकंवा प्रायश्चित्त ददति । अत्र परस्य प्रश्नमुदीरयति[भा.४०३९] चोदगपुच्छा पच्चक्खनाणिणोथोवं कह बहुंदेति ।
दिलंतो वाणियए जिनचोदस पुविएधमए ।। वृ- चोदकस्यात्र पृच्छा प्रत्यक्षज्ञानिनो जिनादयः स्तोकेऽपराधे कथं बहु प्रयच्छन्ति प्रायश्चित्तमुपलक्षणमेतत् भूयसि वापराधे स्तोकमत्र सूरिराह-दृष्टान्तोऽत्रवणिजा दृष्टव्यः । तथा भूयः परस्य पृच्छा जिनादयः केवलज्ञानादिबलेन परस्य भावं जानते चतुर्दशपूर्विणस्तु कथं येन स्तोकेऽपि बहु, बहावपिस्तोकं ददति । सूरिराह-अत्रधमको दृष्टान्तः तत्रप्रथमतोवणिग्दृष्टान्तंभावयति[भा.४०४०] जंजहमोल्लंरयणंतंजाणइ रयणवाणितो निउणो ।
थोवंतुमहल्लसस्वकासइ अप्पस्स विबहंतु ।। वृ- यथा निपुणो रत्नवणिक् यत् रत्नं यथा मूल्यं तत्तथा सम्यक् जानाति । ज्ञात्वा च कस्यचित् महतोऽपिरत्नस्यस्तोकंमूल्यं ददाति, कस्यचिदल्यस्याप्यद्भुतगुणोपेतस्य बहु, इमामेवदृष्टान्तभावनां प्रकारान्तरेणाह[भा.४०४१] अहवा कायमणिस्स उसुमहल्लस्स विउ कागणी मोल्लं ।
वइरस्स उअप्पस्स विमोल्लं होतीसयसहस्सं ।। वृ-अथवेतिप्रकारान्तरे रत्नपरीक्षकोवणिक्काचमणेः सुमहतोऽपिमूल्यंकाकिनी कराति । वज्रस्य तुरत्नस्याल्पस्यापि मूल्यं तेन क्रियमाणंशतसहस्रं भवति । अत्रोपनयमाह[भा.४०४२] इयमासाणबहूण विरागदोसप्पयाए थोवंतु ।
रागदोसोवचया पणगे विउ तो बहुंदेति ।। वृ-इतिअमुनादृष्टान्तप्रकारेणबहुनामपिमासानायोग्येऽपराधेवैराग्यभावनाच्छलतोरागद्वेषाल्पतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org