________________
४३८
व्यवहार-छेदसूत्रम् -२- १०/२५१ मात्रकत्रिकं संस्तारं वसतिं चेति परिग्रहः, श्रुतोपसम्पन्नं लभते षट् मात्रादिकान् मिश्रां च वल्लिं मातृपितृसम्बद्धां सुखदुःखोपसम्पनो मातापितृसम्बन्धान् लभते वयस्यादीन् च, इतरो मार्गोपसम्पन्नो दृष्टान्दृष्टाभाषितानुपलक्षणमेतत्वल्लिद्विकं मित्राणिचलभते विनयोपसम्पन्नस्याभाव्यं सुप्रतीतमिति नव्याख्यातम्। [भा.४००५] इच्चेयं पंचविहं जिनान आणाए कुणइसठाणे ।
पावइधुवमाराहंतविवरीए विवच्चासं ।। वृ- इत्येवं पञ्चविधक्षेत्रश्रुतादिभेदतः पञ्चप्रकारमाभवद्व्यवहारं स्वस्थाने आत्मीये स्थाने यथा क्षेत्रोपसम्पदि यत् उपसम्पद्यमानस्य वा भवति तत्तथैव व्यवहारति । एवं शेषेष्वपि स्थानेषु वक्तव्यं जिनानामाज्ञया करोति परिपालयति स ध्रुवमन्ते आराधनां प्राप्नोति, जिनाज्ञया परिपालितत्वात् । तद्वद्विपरीत आभवद्वयवहारविपर्यासकारी विपर्यासं प्राप्नोति नाराधनामन्तकाले प्राप्नोतीतिभावः । [भा.४००६] एच्चेसो पंचविहो ववहारे आभवंति तो नाम ।।
पच्छितेववहारंसुणवच्छसमासओवुच्छं ।। वृ- इत्येष आभवतिकोनाम व्यवहारः पञ्चविध उक्तः । अत ऊर्ध्वं प्रायश्चित्ते व्यवहारं समासतो वक्ष्ये, तच्च वत्स वक्ष्यमाणंशृणु। [भा.४००७] सो पुनचउब्विहो दव्यखेत्तकालभावे य ।
सचित्ते अचित्ते यदुविहो होइदुव्वंमि ।। वृ-सपुनःप्रायश्चित्तव्यवहारश्चतुर्विधस्तद्यथाद्रव्ये क्षेत्रेकालेभावेच । तत्रद्रव्ये पुनर्द्विविधोभवति। तद्यथा-सचिते अचित्तेच । तत्र प्रथमतः सचित्ते विवक्षुरिदमाह[भा.४००८] पुढविदगअगनिमारुय वणस्सइतसेसुहोइसचित्ते ।
अचित्ते पिंड उवहीदसपन्नरसेवसोलसगे ।। [भा.४००९] संघट्टण परियावणउद्दवणा वज्जणा एसट्ठाणं ।
दानं तुचउत्थादी तत्तियमित्ता व कल्लाणे ।। वृ- पृथिव्यादीनां संघटनादौ प्रत्येकं यथापत्तिप्रायश्चित्तं तत् स्वस्थानमित्युच्यते, । तच्च छक्काय चउसु लहुया इत्यादिना प्रागेवाभिहितमिदं तु दानप्रायचित्तमभिधीयते, । किं तदित्याह-चतुर्थादि, तद्यथा-पृथिव्यादिकं वनस्पतिपर्यन्तमेकेन्द्रियमपद्रावयति जीविताद्व्यपरोपयति तदा अभक्तार्थः । द्वीन्द्रियमपद्रावयतः पष्ठंत्रीन्द्रियमपद्रावयतोऽष्टमंचतुरिन्द्रिये दशमं, पञ्चेन्द्रियेद्वादशमम्, ।तत्तियमित्ता च कल्लाणे इति अथवा यस्य यावन्ति इन्द्रियाणि तस्य तावन्ति कल्याणानि प्रायश्चित्तं, तद्यथाएककल्याणकमेकेन्द्रियाणांपरितापने, द्वेकल्याणके द्वीन्द्रियाणांपूर्वार्द्धमित्यर्थः । त्रीणिकल्याणकानि त्रीन्द्रियाणामेकाशनकमितिभावः । चतुरिन्द्रियाणामाचाम्लंपञ्चेन्द्रियाणामभक्तार्थः । अथवेदंवर्जनायां सचित्ते प्रायश्चित्तं । [भा.४०१०] अहवावि अट्ठारसगं पुरिसे इत्थीसु वज्जिया वीसुं।
दसगंयनपुंसेसुंआरोवणवनिया तत्थ ।। वृ- वर्जना नाम प्रव्राजनायां निषेधस्तत्र परुषे अष्टादशकं वर्जितं स्त्रीपु वर्जिता विंशतिर्दशकं नपुंसकेषु । तत्राह अथवाआरोपणाप्रायश्चित्तंप्राक्कल्पाध्ययनेसप्रपञ्चमभिहितमिति ततोऽवधार्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org