________________
४३६
तत्र स्फिटिते गवेषिते तथैव चागवेषिते अभावेन मार्गणा कर्तव्या ।
तत्र तदेव गवेषयतां वाभवनमनाभवनमाह[भा. ३९९५]
व्यवहार - छेदसूत्रम् - २- १०/२५१
उवण अन्नपंथेण वा गयं अगेवसित न लभंति । अगवेोति परिणत गवेसमाणा खलु लभति ।।
बृ- उपेत्य स्वज्ञातिकान् दृष्ट्रा उपनष्टो अन्येनवा यथास विवक्षितेस्थाने गतोभविष्यतीत्येवं संकल्पा ये मार्गोपदेशनायोपसम्पन्नास्ते यदि तं न गवेषयन्ति, तदा तेऽगवेषयन्तस्तस्य सत्कं न किंचिल्लभन्ते, यदि पुनरद्यापि न गवेषित इति परिणते चेतसि प्रयत्नं विधाय गवेषयन्ति, तदा तस्यादर्शनेऽपिखलु तत्सत्कं लभन्ते, । अथोपसम्पद्यमानानां किमाभवति किं वा नेत्यत आहअम्मापिति संबद्धा मित्ताय वयंसगा य जे तस्स ।
[भा. ३९९६ ]
दिट्टा भट्टा यता मग्गुवसंपन्नतो लभति ।।
वृ- व्रजन्तः प्रत्यागच्छन्तो वा यत्ते उपसम्पद्यमानाः सचित्तादिकमुत्पादयन्ति तत्सर्व मार्गोपदेशकस्य नेतुराभवति, ये पुनर्मातापितृसम्बद्धा नालबद्धवल्लीद्विकमितिभावः । मित्राणि वयस्याद्दष्टा भाषिताश्च ये तमभिधारयन्ति तान्मार्गोपसम्पन्नो मार्गोपसम्पदं प्रतिपन्नो लभते । तदेवं गता मार्गोपसम्पत् । विनयोपसंपयातो पुच्छणसाहण अपुच्छगहणेय ।.
[भा. ३९९७]
नायमनाये दोन्निविनमति पक्किल्लसाली बा ।।
बृ- अत ऊर्ध्वं विनयोपसम्पद्वक्तव्या इति शेषः । स चैवं कारणतो वा केचिद्विहरतोऽकारणतो वा केचिद्विहरन्तो ऽदृष्टपूर्वदेशं गतास्तैर्वास्तव्यानां सांभोगिकानां समीपे प्रच्छनं कर्तव्यम् । यथा कानि मासप्रायोग्यानि क्षेत्राणि कानि वर्षावासप्रायोग्याणि । एवं पृष्टैरपि साधनं कथनं कर्तव्यमन्यथा वक्ष्यमाणप्रायश्चित्तप्रसक्तैरथ तथैवागन्तुका न पृच्छन्ति तदा तेषामपि प्रायश्चित्तं, गहणे यत्ति सचित्तादिकस्य ग्रहणे सति परस्परं निवेदनं कर्तव्यं, यथैतत्सचित्तं वा लब्धं यूयं गृह्णीतेति अनिवेदने असमाचारी तथा नाएत्ति ते आगन्तुका वास्तव्याश्च परस्परं जानन्ति । तथा यतन्ते न प्रमादिनः अनाएत्ति न जानन्ति, कियन्तस्ते किंवा प्रमादिनस्तत्र ज्ञाता न ज्ञाता वा द्रव्यादिभिः परीक्ष्योपसम्पद्येरन् नान्यथा, दोन्निविनमंतित्ति तेच परीक्षापूर्वकमुपसम्पद्यमाना द्वयोरपि परस्परं नमन्ति किमुक्तं भवति रत्नाधिकस्य प्रथमतोऽवमरत्नाधिकेनालोचना दातव्या पश्चात् रत्नाधिकस्य । अत्र पक्वशालयो दृष्टान्तः । यथा पक्कशालयः परस्परं नमन्ति तथात्रापीति भावः ।
साम्प्रतमेनामेव गाथां विवरीषु प्रथमतः पुच्छणसाहण अपुच्छत्ति व्याख्यानार्थमाह[भा. ३९९८ ] कारणमकारणे वा अदिदेसं गया विहरमाणा । पुठाविहारखेत्ते अपुठ लहुतो य जं वावि ।।
वृ- कारणे अशिवादिलक्षणे अकारणे विहारप्रत्ययं सुखविहारो भविष्यतीति बुद्ध्या विहरन्तो यथा सुखमक्लेशेन सूत्रार्थान् कुर्वन्तोऽदृष्टपूर्व देशं गतास्तत्र च तेषां सांभोगिकाः सन्ति, ततस्तैरागन्तुकैस्ते वास्तव्याः सांभोगिकाः पुच्छाविहारखेत्तेत्तिमासकल्पप्रयोग्यानि वर्षाकल्पप्रायोग्यानि वा विहारक्षेत्राणि प्रष्टव्यास्तानि च तैः कथयितव्यानि । यदिन पृच्छन्ति, पृष्टा वा ते न कथयन्ति तदा द्वयानामपि प्रत्येकं प्रायश्चित्तं लघुको मासः । यच्च पृच्छामन्तरेण वा स्तेन स्वापदादिभ्यो अनर्थ साधवः प्राप्नुवन्ति
7
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International