SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ उद्देशक : :- १०, मूल- २५१, [भा. ३९८९ ] ४३५ तावत्तमभ्युपपन्नगच्छमेकतरे सारयन्ति । येषामवग्रहे वर्तन्ते, अथ ते सारयन्तः परिताम्यन्ति तदा कुलस्थविराणामादिशब्दात् गणस्थविराणां सङ्घस्थविराणां वा तान् ददति अर्पयन्ति यो वा कोऽपि तेषां सम्मतस्तस्य समर्पयति । गता सुखदुःखोपसम्पत् । सम्प्रति मार्गोपसम्पद्वक्तव्या तथा चाहसुखदुक्खे उवसंपयए सा खलु वण्णिया समासेणं । अह एतो उवसंपय मग्गोग्गह वज्जिए वुच्छं ।। [भा. ३९९० ] वृ- एषा अनन्तरोदिता खलु उपसम्पद्वर्णिता समासेन सुखदुःखे । अथानन्तरमत ऊर्ध्वं मार्गे अवग्रहवर्जिते वक्ष्ये, मार्गोपसम्पदं वक्ष्ये इत्यर्थः । अत्र चेयं व्युत्पत्तिर्मादिशनायोपसम्पत् मार्गोपसम्पत् मग्गोवसंपयाए गीयत्थेणं परिग्गहीयस्स । अगीयरसवि लाभो का पुन नवसंपया मग्गे ।। [ भा. ३९९१ ] अन्यथा वृ- मार्गोपसम्पदि प्रतिपन्नायामगीतार्थस्यापि सतो गीतार्थेन परिगृहीतस्य लाभो भवति, अगीतार्थस्य न किंचिदाभवतीति वधनान्न कोऽपि लाभः स्यात्, का पुनरुपसम्पत् मार्गे इति चेदत आहजह कोइ मगन्नू अन्नं देतं तु वज्जती साहू । उपसंपज्जइ उ तगं तत्थण्णो गंतुकामो उ ।। [भा. ३९९२] वृ-यथेतिमार्गोपसम्पत्प्रदर्शने यथाकश्चित्साधुर्मागज्ञोऽन्यं देशं व्रजति तत्र देशेऽन्यो गन्तुकामस्तकं साधुमुपसम्पद्यते, अहमपि युष्माभिः सह समागभिष्यामि । अथ कीदृशो मार्गोपदर्शननिमित्तमुपसम्पद्यते [भा. ३९९३ ] अव्वत्तो अविहाडो अदिठदेसी अभासितो वावि । एगमनेगे उवसंपयाए चउभंगो जा पंथो ।। वृ- अव्यक्तो वयसा अविहाडोऽप्रगल्भः अदृष्टदेशी अदृष्टपूर्वदेशान्तरोऽभाषिको देशभाषापरिज्ञानविकलः सा चोपसम्पद् एकस्यानेकस्य च तत्र चतुर्भङ्गी । तद्यथा-एककएकंसंपद्यते १ एकमनेकः २ अनेकमेकः ३ अनेकमनेकः ४ सा चोपसम्यत् तावत् यावत्पन्थाः । किमुक्तं भवति यावत्पन्थानं व्रजति ततो वा प्रत्यागच्छतीति । एतदेव सविशेषमभिधित्सुराह-. [भा. ३९९४] गयागते गयनियत्ते फिडियगविठे तहेव अगविट्टे । उभाग सन्नाय नियट्ट अदिट्ठे अभासीय ।।. बृ- अव्यक्ता अविहाडा अदेशिका अभाषिका वा अन्यं साधुमुपसंपद्यते, अस्माकममुकप्रदेशेन यथा वा यत्र तेषां गन्तव्यं तत्र ये विवक्षितसाधोरन्ये ऽव्यक्तविहाडादयो गन्तुकामास्तान् ब्रुवते वयं युष्याभिः सह गमिष्यामस्तत्रयत्र गन्तुकामास्ततो यदि प्रत्यागच्छन्ति तदैतत् गतागतमित्युच्येत तस्मिन् मार्गोपसम्पत् गयनियत्ते इति अनुसंपन्ना एववात्मीयेन व्यक्तविहाडादिना समं गतास्तस्य च कालगततया प्रति भग्नत्वादिना वा कारणेन प्रत्यागन्तव्यं नाभवत्ततः प्रत्यागच्छन्तस्तं साधुमुपसंपद्यते। एषा गतनिवृत्ते मार्गोपसम्पत्तथा फिडियगविट्टे तहेव अगविठे इति स्फिटितो नाम नष्टः तत आह उब्भामगेत्यादि उद्भ्रामकभिक्षाचर्यया अदृष्टपूर्वे विषये गतस्ततो न जानाति कुतो गन्तव्यमिति स्फिटितः। अथ स्वज्ञातयो गवेषमाणाः समागतास्तत स्तस्मात् स्थानादृष्टपूर्वे विषये नष्टः ततः स्फिटितस्तथा अभाषकोऽदृष्टपूर्वे विषये पृष्टो पृष्टतो लग्रो याति परं मिलितुं न शक्नोति, स (च) दृष्ट्वा पि प्रतिपृच्छनीयदेशभाषामजानन् न प्रतिपृच्छति, ततो यथा तत्परिभ्रष्टो नश्यति, स च नष्टो गवेषणीयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy