________________
उद्देशक : 5:- १०, मूल- २५१, [भा. ३९१७]
४२३
वर्षारात्रंकर्तुकामास्तद्यथान्ये केचित्साधव आगच्छेयुस्तदा तेषामेतत् यूयं कथयतेति 'दुगाउयाई' चेत्यादि यदि तत्र स्वग्रामे संज्ञी श्रावको न विद्यते तदा द्वे गव्यूते गत्वा प्रतिवसमे अन्तरपल्ल्यां वा गत्वा यदि श्रावकोऽस्ति ततस्तस्य निवेदना कर्तव्या । यथास्माकमिदं रुचितं क्षेत्रमेतत् ज्ञातमन्येषां कुरुतेति । [भा. ३९१८] जयाए समणाणं अनुन्नविता वसंति खेत्तबहिं । वासावासद्वाणं आसाढे सुद्धदसमीए ।।
बू - यतनया सारूपिकादिकं सन्तमनुज्ञाप्य क्षेत्रस्य बहिर्वसन्ति वर्षावासस्थानं पुनराषाढे शुद्धदशम्यां । सम्प्रति जयणाए इत्यस्य व्याख्यानमाह[भा. ३९१९]
सारूवियादि जयणा अन्नेसिं वावि साहए बाहिं । बाहिं वा विठिया संता पायोग्गं ताधि गेण्हए ।।
वृ- सारूपिकादीनामन्येषां वा यत्साधयति कथयति एषा यतना इयं च प्रागेवोक्ता । अथवा पूर्वगाथाप्रथमार्थस्यैवं व्याख्या-सन्तंसारूपिकादिकमनुज्ञाप्य क्षेत्रस्य बहिर्यतनया वसन्ति । तत्र तामेव यतनामाह-बहिर्वापि स्थितास्तत्र वर्षाप्रायोग्यमुपधिंगृह्णन्ति उत्पादयन्ति तच्चैवं संघाटकाः सर्वासु दिक्षु प्रत्यासन्नं प्रेक्षन्ते । एकैकश्च सङ्घाट आत्मनः परिपूर्णमुपधिमुत्पादयति । एकस्य च जनस्याधिकस्येति। [ भा. ३९२० ] दोएहं जतो एगस्सा निप्पज्जइ तत्तियं बहिठियाओ । दुगुणप्पनुवासबहिं संथरे पल्लिं च वज्जंति ।।
वृ- द्वयोरूपधिर्यस्मादेकस्यान्यस्य निष्पद्यते उपधिरात्मनश्च संघाटस्य तदपेक्षया द्विगुणस्तावन्मात्रमुपधिं वर्षायोग्यं सर्वासु दिक्षुः बहिः स्थिता उत्पादयन्ति यदि पुनः संस्तरन्ति तदा बहिः प्रतिवृषभग्रामान् अन्तरपल्लीं च वर्जयंति न तत्र गच्छन्ति
भा. ३९२१]
उच्चारमत्तगादी छारादी चेव वासपाउग्गं ।
संथार फलगसेज्जा तत्थ ठिया चेव नुन्नवणा ।।
वृ तथा तत्र बहिः स्थिता एव उच्चारमात्रकादि आदिशब्दात् प्रश्रवणमात्रकपरिग्रहस्तथा क्षारादि आदिशद्वात् डगलगादिपरिग्रहः वर्षाप्रायोग्यं तथा संस्तारक फलकशय्या अनुज्ञापयति । अथ कस्मात्सर्वेषां सारूपिकादीनामनुज्ञापना क्रियते ? उच्यते एकस्य कथिते कदाचित्सोऽसद्भूतः स्यात्ततोऽनुज्ञापितमननुज्ञापितमेव जायते, सर्वेषां पुनः कथिते यदि केचिदसद्भूती भवन्तितदेतेये शेषाः सन्तस्ते अन्येषां साधूनामागतानां कथयन्ति । ते च बहिस्तिष्ठन्ति, प्रतिवृषभे अंतर पल्लयां वा तत्र यांन भोक्ष्यन्ते।
[भा. ३९२२] पुन्नोय तेसिं तहि मासकप्पे, अन्नं च दूरे खलु वासजोगं । ठायंति तो अंतरपल्लियाए, जं एस काले य न भुंजिहत्ती |
वृ- पूर्णः खलु तेषां तत्र वर्षाप्रायोग्यतया संभाविते क्षेत्रेऽथवा आषाढशुद्धदशमी । अन्यच्चापि दूरे अन्यच्च वर्षाकालयोग्यं क्षेत्रं दूरे तत्र आषाढशुद्धदशमी प्रविक्षणार्थं यामेष्यति काले न भोक्ष्यन्ते तस्यामन्तरपल्ल्यामुपलक्षणमेतत् प्रतिवृषभे वा ग्रामे तिष्ठन्ति । अत्र आषाढशुद्धदशम्यां वर्षायोग्ये क्षेत्रे समागच्छन्ति ।
[भा. ३९२३]
Jain Education International
संविग्गबहलकाले एसा मेरा पुरा य आसीय । इयरबहुले उ संपइ पविसंति अनागयं चेव ।।
For Private & Personal Use Only
www.jainelibrary.org