________________
४०४
व्यवहार-छेदसूत्रम्-२-९/२४५ वारान् विच्छिद्य विच्छिद्य ददाति ६ । अनेकेदायका अनेका भिक्षाएकत्रसंपिण्डय एकवारं ददति७ । अनेकेदायका अनेका भिक्षा विच्छिद्य विच्छिद्य वह वारान् ददाति ८ । [भा.३८१२] पाणिपडिग्गहियस्सवि एसेव कमोभवे निरवसेसो |
गणवासे निरवेक्खोसो पुनसपडिगहोभइतो ।। वृ- पाणिपतद्ग्रहकस्यापि एष एवानन्तरोदितः क्रमो भवति निरवशेषो ज्ञातव्यः । स च पाणिपतद्ग्रभोजी गणवासे निरपेक्षाः स पतगहो भजितो विकल्पितः कदाचिद्भवति कदाचिन्नेति ततस्तस्यपाणिपतद्ग्रहे भजिता
मू. (२४६)तिविहे उवहडेपन्नते तंजहा सुद्धोवहडे, फलिओवडे, संसट्टोवहडे ।। [भा.३८१३] दोण्हेगतरे पाते गेण्हती उअभिग्गहाति दो वहडं ।
दुविहं एगविहंवा अभिहडसुत्तस्स संबंधो ।। वृ-अनन्तरसूत्रद्ववे पतद्ग्रहधारी पाणिपतद्ग्रहिकश्चोक्तस्तयोश्च पाणिपतद्ग्रहयोरन्यस्मिन् पात्रे पतद्ग्रही गृह्णाति उपहूतमपि त्रिविधं द्विविधर्मकविधं वा, अभिगृही गृह्णातीत्याभिग्रहिक प्रस्तावादत्रोपहतस्तत्ररुपोपक्षेपः ।एषोभ्याहृतसूत्रस्व सम्बन्धः ।सूत्राक्षरसंस्कारस्तत्वेवं त्रिविधमुपहृतं प्रज्ञप्तं तद्यथा शुद्धोपहूतं फलितोपहूतं संसृष्टोपहूतंच अमीषां पदानांव्याख्यानां करिष्यति[भा.३८१४] सुद्धे संसट्ठया पलितोवहडेय तिविहमेक्केकं । .
तिन्नेगद्गातिनिय तिगसंजोगोभवे एक्को ।। वृ- उपहूतशब्दः प्रत्येकामभिसम्बाध्यते । त्रिविधमुपहूतं सूत्रेऽभिहितं । तद्यथा शुद्धोपहूतं, संसृष्टोपहूतं फलितोपहूतं च, एकैकं पुनस्त्रिविधं-यदवगृह्णाति, यच्च संहरति, यथास्ये प्रक्षिपति । एतदनन्तरसूत्रे वक्ष्यते, । अत्रैककसंयोगे त्रयो भङ्गास्तद्यथा शुद्धोपहूतं वा गृह्णाति १ फलितोपहूतं वा गृह्णाति २ संसृष्टोपहूतंवागृह्णाति३ द्विकसंयोगेऽपिव्यस्तद्यथाशुद्धोपहृतं फलितोपहतंच १शुद्धोपहूतं संसृष्टोपहूतं २ फलितोपहूतंसंसृष्टोपहूतंच ३ त्रिकसंयोगे एकः शुद्धोपहूतं फलितोपहूतं संसृष्टोपहूतंच गृह्णाति । सर्वसंख्यया सप्त भङ्गा एतेषामेकतरमभिगृह्णाति अभिगृही । [भा.३८१५] सुद्धंतु अलेवकडं अहवणसुद्धोदनोभवे सुद्धं ।
संसट्टआदत्तंलेवडमलेवडंचेव ।। [भा.३८१६] फलियं पहेणयादी वंजणभक्खेहि वा विरइयं तु ।
भोत्तुमणस्सोपहियं पंचमपिडेसणा एसा ।। वृ-यत् अलेपकृतंकाजिकेन पानीयेनवासन्मिश्रीकृतंतत्शुद्धं । अथवाशुद्धोदनोव्यञ्जनरहितो भवति शुद्धं, तदपि नियमादलेपकृतं संसृष्टं नाम भोक्तुकामेनात्तं गृहीतं । किमुक्तंभवति? यत्स्थाले परिवेषितं । तत ग्रहणाय हस्तः क्षिप्तोन तावदद्यापिमुखे प्रक्षिपति । अत्रान्तरे साधुरागतो भिक्षार्थ यत् लेपकृतमलेपकृतंवासंसृष्टमित्युच्यते फलितंनाम यत्व्यञ्जनभ्रक्ष्यैवानानाप्रकार विरचितंप्रहेणकादि प्रहेणकं लाभनकमादि शब्दात् सरजस्कानां दानाय कल्पितं परिगृह्यते । उपहृतशद्धस्यार्थमाह-यत्र भोक्तुमनस उपहूतभित्युच्यतेएषा च पञ्चमी पिण्डेषणा | [भा.३८१७] सुद्धगहणेन पुन होइचउत्थीवि एसणा गहिया! .
संसट्टेउ विभासा फलियनियमाउलेवकडं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org