SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ६:-९, मूल - २३६, [ भा. ३७३२] ३९१ व्यञ्जननानात्वात्किमुक्तं भवति पूर्वं शालामधिकृत्य कल्पाकल्यविधिरुक्त इदानीं तु तान्येव व्यञ्जनान्यधिकृत्य सोच्यते । ततो व्यंजनैर्नानात्वभेदाददोषः, एष योगः सम्बन्धः । अस्य व्याख्या सागारिकस्य शय्यातरस्य औषधयो गोरसवत्यां संवृताः साधारणास्तस्मात् तन्मध्याद्दापयति सूपकारो कल्पते से तस्य साधोः प्रतिग्रहीतुं तथा सागारिकस्यौषधयोऽसंस्कृता असाधारणास्तस्माद्दापयति एवं से तस्य कल्पते प्रतिग्रहीतुमेवमाम्नफलसूत्रद्वयमपि भावनीयम् । सम्प्रति भाष्यप्रयञ्चः गोरस गुल तिल्ल घतादि उसहीतो वा होंति जा अन्ना । . [भा. ३७३३] सूअरस कठलेणं तु ता संथडथडा हुति ।। वृ-सूतस्य (सूपकारस्य) काटलयने इन्धनगृहेया गोरसगुडतैलघृताद्या औषधयोऽन्या वा या भवन्ति ता द्विविधाः सागारिकेण सह संस्कृताः साधारणा भवन्ति असंस्कृता वा असाधारणा वा । कथं पुनः साधारणास्तत आह[भा. ३७३४] ध्रुव आवाह विवाहे जन्ने सद्धे य करडुय छन्नेय । विविहातो ओसहीउ वानीता भत्तसूत्तस्स ।। जं दयं विदळं वा जो वा तह भत्तसेस उवारो । लभइ जइ सूवकारो अविरिक्कं पि हुन लब्भा ।। [ भा. ३७३५] वृ- ध्रुवं सर्वकालमुपस्करोति सूपकारो भोजिकानामावाही दारकपक्षिणां, वीवाहो वधूपक्षिणां, यज्ञो नागयज्ञादि श्राद्धं धिग्जातिजनप्रतीतं, करडुकं मृतकभक्तं, क्षण इन्द्रमहादिरेतेषु सूपकार आनीयते तस्य भक्तभतस्य सूपकारकस्य विविधा औषधयः पूर्वभणिता उपनीता ढौकितास्तत यत् दग्धमीपत् विदग्धं वा प्रभूतं दग्धं यो वा तत्र भक्तशेषस्योद्धारो भक्तशेयं यत्रोद्धरितमित्यर्थः । तद्यदि लभते सूत्रकारस्ततस्तत्कल्पते, अविरिक्तं अविभक्तीकृतं तदापि दग्धविदग्धादि हु निश्रितं ग्रहीतुं दातुं वा न लभते, ततस्तंन कल्पत । एतदेवाह [भा. ३७३६ ] अविरिक्को खलु पिंडो सो चेव विरेइतो अपिंडोउ । भद्दगपंतादीया ध्रुवा उ दोसा विरेकेवि ।। वृ- अविरिक्तोऽविभक्तीकृतः खलु भवति पिण्डः सागारिकपिंडः स एव विरेचितः पृथक्कृतो भवत्यपिंडः सागारिकपिण्डो न भवतीतिभावः । यद्येवं तर्हि सग्ग्राह्यस्तत आह् विरक्तेऽपि धुवाभद्रकप्रान्तादिका दोषास्तस्मात्तत्रापि [भा. ३७३७] जाउ संघडियाओ सागारिय व संतिया न खलु कप्पे । जाओ असंथडियाओ सूतस्स य ताओ कप्पंति ।। वृ- सागारिकसत्का असागारिकेण सह संस्तृतास्ताः खलु न कल्पन्ते यास्त्वसंस्तृताः सूतस्य सूपकारस्य सम्बन्धितया जातास्ताः कल्पन्ते । तदेवमौषधिसूत्रद्वयं भावितमधुनाम्रफलसूत्रद्वयं भावयति[ भा. ३७३८] वल्ली वा रुक्खो वा सागारियसंति उ भएज परं । तेसि परिभोगकाले समणाण तहिं कहं भणियं ।। वृ-वल्ली वा सागारिकसत्को वृक्षो वा सागारिकसम्बन्धिपरम्परस्यावग्रहं भजेत् । तत्रतेषां वल्लीवृक्षाणां फलपरिभोगकाले श्रमणानां कथं भणितं किं कल्पते किं वा न कल्पते इति एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतो वृक्षवल्लीव्याख्यानमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy