________________
उद्देशक :-९, मूल - २३२, [भा. ३७२१)
३८९ वृ- व्यवहारे नवमे उद्देशक यावत्यः शालाः शालासत्राणि भवन्ति विद्यन्ते तासां सर्वासां परिपिण्डितानामयं तात्पर्यार्थः । यत्र साधारणमविभक्तं क्रमाणकं तत्र प्रतिषेधः साधारणवर्जिते तु ग्रहणं । सम्प्रति साधारणशब्द-शालाशब्दव्याख्यानार्थमाह[भा.३७२२] साहारणसामन्नं अविभत्तमच्छिवसंथडेगर्ल्ड ।
सालत्ति आवनत्तिय पणिअगिहं चेव एगट्टे ।। वृ- साधारणं सामान्यमविभक्तमच्छिन्नं संस्तृतमिति एकार्थ, एते सर्वेऽपि शब्दा एकार्थिका इत्यर्थः । शाला इतिवा आषणइति वा पणितमिति वा गृहमिति वा एकार्थः । [भा.३७२३] साहारणा उसाला दट्वे मीसंसि आवणेभंडे ।
साहारणवकपउत्तेच्छिन्नं वोच्छंअच्छिन्नंवा ।। वृ- साधारण तु शाला भण्यते मिश्रे द्रव्ये सति किमुक्तं भवति । अन्यस्यापि अन्यस्यापि तिला एकत्र मिथयित्वापील्यन्ते पीलयित्वाच एकत्रविक्रोणन्ति । अथवा साधारणेनावक्रयेणयुक्ते आपण भाण्डे वाक्रयाणके साधारण शाला भवति । तथाच्छिन्नमच्छिन्नंवा वक्ष्ये एषगाथासंक्षेपार्थः । [भा.३७२४] पीलंति एक्कनो वा विक्कंतिय एकतो करिय तेल्लं ।
अहवावि चक्कएणंसाहारणवक्कयं जाणे ।। वृ- अन्यस्यान्यस्य तिलानेकत्र संमीलयित्वा पीलयन्ति ततो विक्रीणन्ति अथवा पृथक् तिलान् पीलयित्वातैलंकृत्वा एकत्र विक्रीणन्ति । तदेवं द्रव्ये मिश्रेसाधारणावक्रयप्रयुक्ताशाला व्याख्याता | अथवान्यथा साधारणावक्रयप्रयुक्तेनि व्याख्यानयति । अथवा वक्रयेण भाटकेन या साधारणाशाला प्रयुक्ता व्यापारिता तत्र यल्लभ्यते भाण्डकं तत् शय्यातरस्यान्येषां वा शय्यातराणां साधारणमिति साधारणावक्रयप्रयुक्तं जानीहि । अत्र यथा कल्पते यथा वा न कल्पतेतथा प्रतिपादयति । [भा.३७२५] पीलिय विरेडियंमीपुव्वगमेणं तुगहणमदिट्टे ।
एगत्थ विक्कयंमी अमेलियादिदु अन्नत्थ ।। वृ- अन्यस्यान्यस्य तिलानेकत्र मीलयित्वा पीलयित्वा च तैले विरेचिते विभक्तीकृते पूर्वगमेन पूर्वप्रकारेण शय्यातरेणादृष्टे ग्रहणं भवति, दृष्टे तु न कल्पते, मा प्रक्षेपकं कुर्यादिति हेतोरन्यत्र नीतं तु कल्पत एव, तथा पृथक् एव तिलान् पीलयित्वा च एकत्र विक्रीणन्ति । तत एकत्र विक्रये यावन्मूल्यं मिलितमविभक्तमित्यर्थः तावन्नकल्पतेइत्यर्थः ।अमीलितेमूल्यकरणेन विभक्तीकृते सागारिकेणादृष्टं सतुकल्पते, दृष्टे प्रक्षेपदोषसंभवात् । अन्यत्र पुनःस्वयोगेन नीतं निःशवंकल्पते ।
सांप्रतमापणंसाधारणावक्रयप्रयुक्तंव्याख्यानयति[भा.३७२६] जोउलाभगभावेण पउत्तो होतिआवणो ।
साउसाहारणा होइ तत्थघेत्तुंन कप्पइ ।। वृ- यस्तु सागारिकेन लाभभागेन त्रिभागादिना आपणः प्रयुक्तो भवति स साधारणो भवत्यापणस्ततस्तत्रगृहीतुंन कल्पते । साम्प्रतंभाण्डंसाधारणावक्रयप्रयुक्तं व्याख्यानयति[भा.३७२७] छेदेवा लाभे यासागारितो जत्थ होइआभागी।
. तंतुसाधारणंजाणे सेसमसाहारणंहोइ ।। वृ-यत्रभाण्डेच्छेदे लाभेवासागारिकार्द्धन विभागादिना वा आभागीभवतितत्भाण्डं साधारणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org