________________
उद्देशक :- ९, मूल - २१८, [ भा. ३७१२]
[भा. ३७१२]
૨૮૭
एगपए अभिनिपए अहिं सुत्तेहिं मग्गणा जत्थ । सागारियदोसेहिं पसंगदोसेहिंय अगज्झं ।।
वृ- एकस्यां प्रजायामभिनिप्रजायां प्रत्येकं विविक्तायां प्रजायामष्टभिः सूत्रैः पिण्डस्य मार्गणा यत्रयेषु सूत्रेषु प्रथमतृतीयेषु पञ्चमसप्तमरुपेषु सागारिकदोपैर्द्वितीयचतुर्थपष्ठाष्टमेष्वथ प्रसङ्गदोषे भक्तपानमग्राह्यम् | [भा. ३७१३]
आइल्ला चउरो सुत्ता चउक्स्सालदवेक्खतो ।
पिहघरेसु चत्तारि सुत्ता एक्कनिवेशने । ।
बृ- आदिमानि चत्वारि सूत्राणि एकग्रहविषयाणि चतुःशाल्याद्यपेक्षातश्चतुःशालादावेव द्वयोः कुडम्बयोरवस्थानघटनात् अन्तिमानि चत्वारि सूत्राणि पृथग्गृहेषु तान्यप्येकस्मिन्निवेशने परिक्षेपे ।। सागारियरस दोसा चउसु परसंगदोसा य ।
[भा. ३७१४]
भद्दगपंतादीया चउसु पि कम्मेण नायव्वा ।।
वृ- चतुर्थप्रथमतृतीयपंचमसप्तमरुपेषु सूत्रेषु सागारिकस्य दोषाः शय्यातरपिण्डग्रहणे ते दोषास्तत्र ज्ञातव्या इत्यर्थः । चतुर्षु द्वितीयचतुर्थषष्ठाष्टमादिरूपेषु सूत्रेषु प्रसङ्गदोषाश्चतुर्ष्वपि सूत्रेणु यथोक्तक्रमेण ज्ञातव्या, भद्रकप्रान्तादिकृता आदिशब्दात् तस्तमविशेषपरिग्राहकः । अथ कथं प्रथमतृतीयादिषु चतुर्षु सूत्रेषु शय्यातरदोषाः कथं चान्यत्रप्रसंगदोषास्तत्राह
[भा. ३७१५ ]
दारुगलोणे गोरससृवोदग अंबिले य सागफले ।
उवजीवइ सागारियं एगपए वावि अभिनिपए । ।
वृ- दारु काष्टं लवमं गोरसं च प्रतीतं सूत्रो मुद्रादि उदकमाम्लं शाकफलानि च प्रतीतानि यस्मात्सागारियमिति षष्टयर्थे द्वितीया प्राकृतत्वात्सागारिकस्य सक्तानेकस्यां प्रजायां प्रत्येकं विविक्तायां वा प्रजायामुपजीवति तेन कारणेन सागारिकदोषाश्च प्रसजन्ति । एतेन सागारियं च उवजीवति इति .व्याखातं । कस्मादेकां चुल्लीं प्रतिपद्यन्ते तत आह
[ भा. ३७१६]
भीयाई करभयस्सय अंतो बाहिं व होज एकपया ।
अभिनिपए विन कप्पइ पक्खेवगमादिनो दोसा ।।
वृ- भीतानि, चुल्लीकरभयात्, गाथायां षष्ठी पञ्चम्यर्थे सम्बन्धविवक्षायां वा षष्ठी, यस्माच्छुल्लीकरभयात्तानि भीतानि तेन कारणेनान्तर्वहिर्वा तेषामेका प्रजा चुल्ली भवति । अभिनिप्रजायां तु सत्यां यद्यपि सागारिकसत्कमुपजीव्यते तथापि । निर्भिन्नचुल्लीकतया बत् गृह्यते तत्तेषामेव भवतीति सागारिकदोषा न भवन्ति । तथापि प्रसङ्गदोषतो न कल्पते तथा चाह-अभिनिप्रजायामपि न कल्पते यतो भद्रकप्रान्तकृताः प्रक्षेपादयो दोषाः, भद्रकः पक्षेपादीन् दोषान् कारयेत् । प्रान्तो विनाशप्रभृतीन्[भा. ३७१७] देसी तं देमो एए घेत्तुं न इच्छते अम्हं ।
अहवा वि अकुलजोत्ति य गेण्हंति अदिट्टमादीयं । ।
वृ- भद्रका ब्रुवते त्वं साधुभ्यः प्रभूतं देहि यद्ददासि तद्वयं तव दास्यामः । यत एतेऽस्माकं गृहे नेच्छंति ग्रहीतुं गाथायामेकवचनं प्राकृतत्वात्, एवं भद्रककृताः प्रक्षेपादयो दोषाः अथवा प्रान्तो बूते अकुलजा एते इति कृत्वा अदृष्टादिकं गृह्णन्ति । एवं गर्हा करोत्यतिप्रान्तो विनाशमपि, अत्रैवापवादमुपदर्शयति । [भा. ३७१८ ] बिइयपदे उदिट्टगहणं असती तव्वजिएण दिट्ठस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org