________________
३८४
व्यवहार- छेदसूत्रम् - २ ९ / २१० भावनीयानि । एवं चत्वायदिशविषयाणि चत्वारि दासादिविषयाणि इह यत्र यत्र प्रातिहारिकं तत्र तत्र सागारिकपिण्ड इति न कल्पते । यत्र पुनरप्रातिहारिकं तत्र तत्र न सागारिकपिण्ड इति कल्पते, प्रथमतृतीय- पञ्चम- सप्तम-सूत्रेषु सागारिकपिण्ड इति कृत्वा न कल्पते, द्वितीयचतुर्थषष्ठाष्टमसूत्रेषु न भवति सांगारिक पिण्ड इति कल्पते, केवलं भद्रकप्रान्तदोषतो वर्ज्यते इति सूत्राष्टकभावार्थः । आयासकरो आएसितो उ आवेसणं व आविसइ । सो नायगो सुही वा पभूव परतित्थिओ वावि ।।
[भा. ३६९९ ]
वृ- आयासकर आदेशः आदिशतीत्यादेश इति व्युत्पत्तेः, आदिशितो वा आदेशः आदेश्यते सत्कारपुरस्सरमाकार्यत इत्यादेशव्युत्पत्तेः । अथवा आवेश इति शब्दसंस्कारस्तत्र व्युत्पत्तिमाह-आवेशनं वा शब्दः शब्दसंस्कारापेक्षया विकल्पते आविशतीत्यादेश: । आवेशनं नाम यस्मिन् स्थाने प्रविष्टेन सागारिकस्यायासो जन्यते स आदेश आवेशो वा नाम ज्ञातिकः स्वजनः सुहृद् मित्रं प्रभुर्वा नायकः परतीर्थिको वापि कृता विषमदव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तरः । आएस दास भइए अहिं सुतेहिं मग्गणं जत्थ । सागारिय-दोसेहिं य पसंग - दोसेहिंय आगज्झो ||
[भा. ३७०० ]
वृ- आदेशो यथोक्तरूपो दास आजन्मावधि किंकरो भृतकः कियत्कालंमूल्येन धृत आदेशश्च दासश्च भृतकश्च आदेशदासभृतकं तत्र च पिण्डस्याष्टभिः सूत्रैर्मार्गणा कृता । यत्र सागारिकदोषैः प्रसङ्गदोषैश्च भद्रकप्रान्तकंकृतैय्ग्राह्यो भवति । साम्प्रतमष्टानामपि सूत्राणां विभागमाह
[भा. ३७०१]
तत्थादिमाई चउरो आवेसे सुत्तमाहिया ।
दो चैव पाडिहारी अपाडिहारी भवे दोन्नि ।।
वृ-तत्र तेषामष्टानां सूत्राणां मध्ये आदिमानि चत्वारि सूत्राणि आदेशे प्रागुक्तस्वरुपे आख्यातानि, तत्रापि द्वे सूत्रे प्रातिहारिणि द्रष्टव्ये द्वे च सूत्रे अप्रातिहारिणि, प्रथम तृतीये प्रातिहारिणि, द्वितीये चतुर्थेप्रातिहारिणीत्यर्थः ।
[ भा. ३७०२]
अंतो बहि वा विनिवेसणस्स आवसएणं व ठिए सगारे । भत्तं न एयस्स विसेसजुत्तं, तंमी दलते खलु सुतबंधो ।।
वृ- निवेशनं गृहस्यान्तर्वहिर्वा स्थिते सागारिके शय्यातरे यदि आदेश एव आदेशः प्राघूर्णकस्तेन वा सहस्थिते यद्भक्तंविशेषयुक्तं विशेषतो निष्ठां नीतंतन्न एतस्य प्राधूर्णकस्य सम्बन्धि किन्तु सागारिकस्य ततस्तस्मित् ददति सूत्रसम्बन्धः सूत्रोपनिपातः । प्रातिहारिकभोजितया तस्मिन् ददाति प्रथमे तृतीयेच सूत्रे न कल्पते सागारिकपिण्डत्वात् । द्वितीये चतुर्थे वा प्रातिहारिकभोजितया कल्पते । तदायत्वात्केवलं भद्रकप्रान्तदोषप्रसङ्गतो न गृह्यते । एतदेवाह
[भा. ३७०३] सागारियरस दोसा दोसु दोसु पसंगतो दोसा । भद्दगपत्तादीया होइ इमे मुणेयव्वा, (दोसु पिकमेण नेयव्वा)
बृ- द्वयोः प्रथमतृतीययोः सूत्रयोः सागारिकस्य दोषात् शय्तरपिण्डत्वान्न कल्पते इति भावः । द्वयोर्द्वितीयचतुर्थयोः प्रसङ्गतो दोषा भद्रकप्रान्तादिकाः आदिशब्दादतिभद्रकातिप्रान्तादिपरिग्रहस्ते च इमे वक्ष्यमाणा भवन्ति ज्ञातव्याः । तानेवाह
[भा. ३७०४ ]
एएण उवाएणं गिण्हंतो भद्दे उम्मेगतरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org