________________
उद्देशक :-८, मूल - २०१, [भा.३६५२]
३७५ समीपेउषितःसंविग्नसहागमनाच्च । इतरेनामअसंविज्ञाः पार्श्वस्थादयःसारुपिकसिद्धपुत्रश्चतेषांसमीपे यद्युषितस्तैश्रानुशिष्टः प्रतिनिवृत्तः तस्यागतस्य प्रायश्चित्तं चत्वारो लघव उपकरणं च तस्योपहन्यते । यथाच्छन्दस्य सकाशेउषितस्य चतुर्गुरुकसम् । साम्प्रतमागमनद्वारमाह[भा.३६५३] संविग्गादनुसिहो तद्दिवसनियत्तोजइवि न मिलेजा ।
नयसज्जइवइयादिसुचिरेण विहुतो न उवहम्मे ।। वृ- संविगैरादिशब्दादसंविग्नैश्चानुशिष्टो यदि त नोषितः किन्तु तस्मिन्नेव दिने प्रतिनिवृत्तो यद्यपि तस्मिन्नेव दिने न मिलति न च प्रव्रजिकादिषु सजति ततश्चिरेणाप्यागच्छतो हु निश्चित्तं तस्योपकरणं नोपहन्यते आनीयमानस्य तूपहन्यते । एतदेवाह[भा.३६५४] एगानियस्समुवणेमासो उवहम्मतेय सोउवही ।
तेन परंचउलहुगा आवजइजंचतंसव्वं ।। वृ- बलादानीयमान एकाकी समागच्छन् यदि रात्रौ स्वपिति तदा तस्यैकाकिनः स्वप्ने प्रायश्चित्तं लघुको मासः उपधिश्चतस्योपहन्यते । अथ तस्मादिवसात्परमपिलगतितदा तस्य प्रायश्चित्तं चत्वारो लघुकाः ।अथव्रजिकादिष्वपान्तरालेसजतियच्चतत्रप्राप्नोतितन्निष्पन्नंसर्वंतस्यप्रायश्चित्तमापद्यते । [भा.३६५५] संविगेहणुसिठो भणेज जइहंइहेब अच्छामि ।
भणतितेआपुच्छसु अनिच्छतेसिं निवेयंति ।। [भा.३६५६] सो पुनपडिच्छतो वा सीसे वा तस्स निग्गतो हुजा ।
सीसं समणुन्नायंगेण्हंतियरंमि भयणा उ ।। वृ-संविगैरनुशिष्टो यदि ब्रूते अहभिहैव युष्माकं समीपे तिष्ठाति तदा स प्रष्टव्यो येषां समीपात्त्वमागतस्तस्य शिष्यो वा त्वं भवति प्रातीच्छिको वा । तत्र यदि शिष्यस्तर्हि भण्यते-तान् आत्मीयान् आचार्यानापृच्छयस्वमुत्कलापय अथस आप्रच्छनं नेच्छतितर्हि तेषां निवेदयन्ति । यथा यौष्माकीण शिष्योऽस्माकंपार्श्वेसमागतो वर्ततेस बहुधानुशिष्टः । परंप्रतिनिवर्तितुंनेच्छतिकिन्तुब्रूते अहं युष्माकं पार्श्वे स्थास्यामि । एवं निवेदने कृते यदितेसमनुजानन्तिततः प्रतीच्छन्ति । अथ नानुजानन्तिततोन प्रतीच्छन्ति इतरो नाम प्रातीच्छिकस्तस्मिन् भजना । तामेव प्रतिपादयति[भा.३६५७] उद्दिठमनुद्दिठे उद्दिठ्ठसमाणियंमिपेसंति ।
वायंतिवणुन्नायंकडे पडिच्छंति उपडिच्छं।। वृ-तस्य प्रातीच्छिकस्य प्रथमतः प्रश्रेन परिभाव्यते । किमेतस्य श्रुतस्कन्धादिकमुद्दिष्टमस्ति किं वा नेति । तत्र यधुद्दिष्टं तदपिया परिसमापतितंतदान प्रतीच्छन्ति । किन्तु तेषामेव समीपे प्रेषयन्ति । तत्र यदि समनुजानन्ति यूयमेवैनं वाचयत । तदा तैः समनुज्ञातं वाचयन्ति अन्यथा न प्रतीच्छन्ति । अथोद्दिष्टश्रुतस्कन्धादिपरं कृतंसमाप्ति नीतंतदाकृते श्रुतस्कन्धादौ तं प्रतीच्छकं प्रतीच्छन्ति । अथ न किमप्युद्दिष्टमस्तितदापितमागतंप्रतीच्छन्ति । एष विहारेणावधावी भणितः । [भा.३६५८] एवं ताव विहारे लिङ्गोहावी वि होइएमेव ।
सो किंतुसंकिमसंकी संकिविहारे यएगगमो ।। वृ- एवमुक्तेन प्रकारेण विहारे विहारावधावी उक्तो लिङ्गोवधाविन्यप्येवमेव भवति स पुनर्लिङ्गावधावी द्विधा-शङ्की अशङ्की च । शङ्की नाम यस्यैवं संकल्पो यदि मम स्वजना जीविष्यंति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org