________________
३५६
व्यवहार - छंदसूत्रम् - २८/२००
सवित्थारोत्ति यच्च स्त्र्यादिभिः सह संघट्टनादि प्राप्नोति तन्निष्पन्नमपि तस्य प्रायश्चित्तमितिभावः । तथा[भा. ३५५६ ] छड्डावणन्नपहो दवासती दुब्भिगंधकलुसप्पे । तेनोत्ति वसंकेज्जा आदियणे चेव उड्डाहो ।।
- कोऽपि सखरो राजकुलमान्यः प्रान्तः श्रवणमुच्चारंपथि कुर्वन्तं दृष्ट्रा कोपात्तमेव श्रमणमास्कन्द्य तमुच्चारं छर्दापयेत् । अपरैन्यः पन्था क्रियतेतत्रचोक्तंप्रायश्चित्तं, तथा पथिद्रवाभावे दुरभिगन्ध उच्छलेत् । तत्रापि प्रवचनोड्डाहस्तथा कोऽपि कलुषात्मा. शंकेत स्तेनक इति उपलक्षणमेतत् । हेरिकोऽभिचारिको वा इत्यपि शङ्केत । तत आदाने ग्रहणेप्रवचनस्य उड्डाहः तस्मात् पथि विश्रामणादि न कर्तव्यमत्रे
वापवादमाह -
अच्चायव दूरपहे असहूभावेण खेदियप्पावा । छन्ने वा मोत्तुपहं गामसमीवे य छन्ने वा !!
बृ- अतिशयेनातप उष्णं तपति वृक्षाश्चपथो दूरे वर्त्तन्त यथासणपल्लीमार्ग प्रतिपन्नानामेक एवाध्वनि विश्रमणयोग्यो वृक्ष एवमधिकृतेप्यध्वनि विश्रमणहेतुरेक एव वृक्षोऽन्यत्रमाकाशं तेन कारणेन पथ्यपि वृक्षस्य अधस्तात् विश्राभ्येत् । असहो नाम नातिदूरे वृक्षाः सन्ति परं तत्र गन्तुं न शक्नोति ततः सोऽपि पथि वृक्षस्याधो विश्रमणं कुर्यात् । अथवा उपधिभारेण खेदितात्मा अतिशयेन परिश्रान्तस्ततः पथ उद्वर्तितुं न शक्नोतीति पथ्येव विश्राम्यति । तदेव पथ उभयोः पार्श्वयो दूरेण वृक्षसंभवे द्वितीयपदमुक्तमिदानीं समन्ततो वृक्षच्छन्ने प्रतिपादयति छन्ने वा मोत्तुपहमितियत्र पन्था उभयोः पार्श्वयोर्वृक्षैः छन्नस्तवा वा विभाषायां यदि निर्भयं न ततः पन्थानं मुक्काऽन्यत्र विश्रमणादि करोति । अथ भयं तदा पथ्येवेति एतद्दूरेऽभिहितं, ग्रामसमीपे पुनर्निर्भयमिति वृक्षच्छन्ने वा पथिय उद्वर्त्य विश्रामणादि करोति ग्रामसमीपे यस्य तस्य वृक्षादेर्देवकुलादेश्छायासंभवात्तेन पुनः साधुना पथः कियद्दूरे उद्वर्तितव्यमत आह[भा. ३५५८ ] पंथे ठितो नपेच्छइ परिहरिया पुव्व वन्निया दोसा ।
[भा. ३५५७]
बिइयपए असतीए जयणाए चिट्टणादीनि । ।
वृं- तावति दूरे उद्धृत्य स्थातव्यं यत्र पथिकः पथा वृजन् पथि ऊर्ध्वस्थितो वा साधुमुद्वृत्तं न पश्यति । एवं च पूर्ववर्णिता दोषाः समस्ता अपि परिहृताः । द्वितीये पदे अपवादपदे पुनरुद्वर्तने असति उद्वर्तनाभावे पथ्यपि यतनया वक्ष्यमाणया स्थानादीनि करोति स च तथा कुर्वन् तीर्थकराज्ञया प्रवृत्तेः शुद्ध इति, । [भा. ३५५९] संकठ्ठहरियच्छाया असतीए गहिती वहिट्टितो अत्थे ।
उठे इव अपत्ते सहसा पत्ते ततो पठिं । ।
वृ- संकठो नाम पन्था स उच्यते यो वाट्योरपान्तराले तत्रोद्वर्तनस्यासंभवः अथवा चतसृष्वपि दिक्षु समन्ततो हरितकायः अथवा पन्थानमतिरिच्यान्यत्र सर्वथा च्छाया न विद्यते । तत एतैः कारणैरुद्वर्तनासंभवे पथ्येव गृहीतोपकरणो मुहूर्तमात्रमूर्द्धास्थितो मार्ग एव च्छायायां विश्राम्येत, यदातु पथिकानागच्छतः पश्यति तदा तेषु तं प्रदेशमप्राप्तेष्वेव उत्तिष्ठति । तथा ते जानन्ति पूर्वमेष उत्थित इति । अथ सहसैव ते पथिका अदृष्टा एवं संप्राप्तास्तदा तेषां पृष्टं दत्वा उत्तिष्ठति । तदा ते जानन्ति यथैष आत्मव्यापारेणोत्थित इति । एवं मिथ्यात्वादिदोषाः परिहता भवन्ति ।
[भा. ३५६० ]
Jain Education International
भुंजणपियणुच्चारे जयणं तत्थ कुव्वती । उदाहडाय जे दोसा पुव्वं तेसु जतो भवे । !
For Private & Personal Use Only
www.jainelibrary.org