________________
३५४
[ भा. ३५४५ ]
पंथे उवस्सए वा पासवनुच्चार माइयंते वा । पम्हु सती एहि तम्हा मोत्तूणिमे ठाणा ।।
वृ- तत् उपकरणं पथिव्रजतः कथमपि पतेत् ग्रामानुग्रामं वा गच्छन् यत्रोपाश्रये उषितस्तत्र विस्मरणतः पतितं भवेत । विश्राभ्यतो वा क्वचित् पतितंस्यात् । उच्चारं प्रश्रवणं वा कुर्वतः स्यात् पतितं, आचमतो वा विस्मृतमेतैः कारणैर्विस्मरणतः पतनसंभवस्ततो येषु विश्राम्यत उच्चारं प्रश्रवणं वा कुर्वतो दोषा भवन्ति तानीमानि स्थानानि वर्जयेत् । तान्येवाह
[भा. ३५४६ ] पंथे वीसमणनिवेसणादि सो मासो होइ लहूओ ऊ । आगंतरसंठाणे लहुगा आणादिनो दोसा ।।
वृ- पथियदि विश्राभ्यति निवसति वा आदिशब्दात् ऊर्ध्वस्थितो वा तिष्ठति सुप्तो वा उच्चारं प्रश्रवणं वा व्युत्सृजति तदा सर्वत्र असमाचारी निष्पन्नंप्रायश्चित्तं मासलघु यदि पुनः आगन्तॄणां स्थाने सभादौ विश्रमणादि करोति तदा सर्वत्र प्रत्येकं चत्वारो लघुकाः आज्ञादयश्च दोषाः ।
[भा. ३५४७ ] मिच्छत्त अन्नपंथे धूली उ विखनन उ उवहिणो विनासो । ते चेवय सविसेसा संकादिविविचमाणे वी ||
व्यवहार - छेदसूत्रम् - २८/२००
वृ- ससाधुः पथिविश्राम्यति धिग्जातीयाश्चान्ये जातिमदावलिप्तास्तेन पथा समागता भवेयुस्ततः ससाधुश्चिन्तयेत् । मा मन्निमित्तमेने उद्वर्तमानाहरितकायादिविराधनां कार्षुरिति । स साधुः पथ उत्थाय अन्यत्र तिष्ठेत् यत्र च इमे दोषा जानन्त्ये ते श्रमणवादिन आत्मनः सारमतोऽयमस्मान् दृष्ट्राद्वृत्त इति तथा साधूनां धिग्जातीयानां पथि दत्तेऽत्र एव तेषामपि गुरवो धिग्जातीयाः प्रधानाश्च एतच्चाभिनवधर्माणः श्रुत्वा दृष्ट्रा वा मिध्यात्वं प्रतिपद्येरन् । तथा अनपंथेत्ति तं साधुं पथि स्थितं दृष्ट्वा पथिका उद्धृत्या व्रजन्ति । ते चोद्वर्तमाना हरितकायादीनां विराधनां कृर्वन्ति । तथा केचित्तं पथि स्थितं दृष्ट्वा ब्रुवते - अहो निर्लज्जः श्रमणः पन्थानं रुध्वा स्थितः । तच्च श्रुत्वा कोऽप्यसहनः कलहं कुर्यात् ततो युद्धे समापतिते भाजने भेदोऽनागाढादिः परितापनाच स्यात् । तथा पादनिक्षेपेण धूल्या उत्खननं भवतीति तेन च उपधेर्विनाशो मलिनत्वभावात् ते एवानन्तरोदितदोषाः सविशेषाः शङ्कादयो विविचत्यपि उच्चारादि त्यजत्यपि, तथाहि उच्चारादि पथि कुब्रतो लोकस्य शङ्कोपजायते किमनेन गुदंनिर्लेपितमुत नेति । आदिशद्वात् किमेष स्तेनकः किं चाश्रमणोऽभिचारको हेरिको वा इत्यादि परिग्रहः । एष द्वारगाथासंक्षेपार्थः । सामप्रतमेनामेवगाथां विवरीषुः प्रथमतो मिथ्यात्वद्वारं विवृणोतिपंथे न ठाइयव्यं बहवो दोसा तहिं पसति । . अब्भुठियत्ति गुरुगा जं वा आवजती जत्तो ।
[भा. ३५४८ ]
वृ- पथि साधुना विश्रमणनिमित्तं न स्थातव्यं यतस्तत्र बहवो दोषाः प्रसजन्ति । तानेवाह - साधुना धिग्जातीयानां पथि प्रदत्ते अभ्युत्थिताएते अभ्युत्थानमेतेषां कृतमिति लोकप्रतिपत्तौ तस्य प्रायश्चित्तं चत्वारो गुरुकाः । यच्चस्वयं दृष्ट्रा यतो वा श्रुत्वा मिध्यात्वमापद्यते । अभिनवधर्या मिथ्यादृष्टिर्वा गाढतरं मिथ्यात्वमधिगच्छति तन्निष्पन्नं च तस्य प्रायश्चित्तं धिग्जातीयानां चात्मबहुमानसंभवः
"
[भा. ३५४९ ]
जाणंति अप्पणो सारं एते समणवादिणो ।
सारमेएसि लोगो यमप्पणो न वियाणई ।।
वृ-ये आत्मानं श्रमणमिति वदन्ति ते आत्मनः सारं परमार्थतत्वं जानन्ति यथा अस्मभ्यमेते गरीयांस
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International