________________
- व्यवहार-छटसूत्रम् -२ - ८/१९० आगतस्तेनापि तत्रस एव संस्तारकः प्रणयितो याचितः संस्तारकस्वामिनोक्तं दत्तोऽन्यस्य ततस्तथैव तं विपरिणामयति । यथा सर्वदैवाहं तव प्रियस्ततो मयि सति किमन्यस्मै तव दातुमुचितंतस्माद्यदि स आगच्छतितर्हितस्य प्रतिषिद्धपश्चान्ममदातव्य इति एवं यदिविपरिणम्यानीतोभवतिततपूर्वतमस्था भवतिनेतरस्यतदेवमुक्तविपरिणामद्वारमधुनाधर्मकथाद्वारंतथैव प्रथमसंघाटकेनसंस्तारकेदत्तोऽन्यस्मै ततो धर्मकथाकथनतस्तमावर्च्य ब्रूते । यथा तस्य प्रतिषिध्यायं संस्तारको मह्यं देयः एवमानीतः पूर्व संघाटकस्य स आभवति नेतरस्य । तथा येन प्रथमसंघाटकेन संस्तारको याचितो लब्धश्रुतस्य तद्विषयभावव्यवच्छेदात्तथा प्रथमसंघाटकेनसंस्तारकेयाचितेलब्धेनेतुमशक्यतया तत्रैवमुक्तेऽन्यः संघाटकस्तत्र समागत्यसंस्तारकंयाचते । तत्रयदि अन्योमनुष्योसंस्तारकंदद्यात्सवाप्रथमसंघाटकयाचितोऽन्यं तदा स तस्य कल्पते यः पुनः प्रणयितः स तेनान्येन वा दीयमानो न कल्पते । तथा च विपरिणामद्वारमुक्त्वा शेषद्वाराणामतिदेशमाह[भा.३४३७] अहभावो लोयणधम्मकहणवोच्छिन्नमनदाराणि ।
नेयाणि तहाचेव उजहेवउछट्ठदारम्मि ।। वृ-यथा भावद्वारमालोयणत्ति पदैकदेशे पदसमुदायोपचारादालोचनं श्रुत्वेति द्वारं धर्मकथनद्वारं व्यवच्छिन्नदारमन्यद्वारं चेति पञ्चद्वाराणि यथैवावभाषितद्वारेऽभिहितानि तथैव ज्ञेयानि पष्टं तु विपरिणामद्वारसाक्षादुक्तं ।गतंलब्धद्वारमिदानी संज्ञातिद्वारमाह[भा.३४३८] सन्नायएवि एच्चिय दारा नवरं इमंतुनाणत्तं ।
आयरिएणाभिहितो गेण्हइसंथारयं अज्जो ।। [भा.३४३९] सुद्धदसमी ठियाणंतेभी घेच्छामि तद्दिनंचेव ।
नायगिहे पडिनत्तोमाएउ संथारतोभंते ।। वृ-यान्येव श्रुतादीनि षट् द्वाराणि लब्धद्वाराभिहितान्येतान्येव सज्ञातिकद्वारेऽपि द्रष्टव्यानि नवरं भावनायांयन्नानात्वंतदिदं वक्ष्यमाणंतदेवा-आयरिएणेत्यादिआचार्येणाभिहितआर्यसंस्तारकं गृहाण, एवमुक्तः सन्सज्ञातिकानां गृहमागमत् दृष्टः संस्तारको याचितोलब्धश्च अथवा सज्ञातिकैरयाचितैरेव सउक्तोग्रहाणसंस्तारकंततस्तेनोक्तं यस्मिन् दिवसे संस्तारकेस्वप्तुमारप्स्यतेतस्मिन् दिवसे नेष्यामः । आचार्याश्चशुद्धदशम्यास्तत्रस्थितास्ततआगत्यशुद्धदशमी स्थितानां गुरुणामन्तिकेब्रूते आलोचयतिभदन्त मया ज्ञातिगृहे संज्ञातिकगृहे संस्तारकः प्रतिज्ञप्तो निभालितस्तिष्ठति ततो यत्र दिने संस्तारके स्वप्स्यते तद्दिवसमेव तस्मिन्नेव दिने गृहीष्यामः । एवमालोचितं श्रुत्वाऽन्यो याचते लभते च आनीतः पूर्व संघाटकस्याभवति नयेनानीतस्तस्य गतं श्रुत्वाद्वारमपरः संघाटकोऽग्रेतनसंघाटकवृत्तान्तमनवज्ञाय यथाभावेनगत्वा याचतेलभतेतेनाप्यानीतः पूर्वसंघाटकस्याभवतिन तस्य,अपरेतुद्वयोरपिसंघाटयोस्तं साधारणमाचक्षते यथाभावद्वारमपिगतमिदानीं साक्षाद्विपरिणामद्वारमाह[भा:३४४०] विपरिणामे तहच्चियअन्नोगंतूण तत्थ नायगिहं ।
आसन्नयरो गिण्हइ मित्तोअन्नोविमंमोत्तुं ।। [भा.३४४१] अन्नेवि तस्स नियगादेहिहि अन्नंय तस्स ममदाउं ।
दुल्लभलाभमणाउं ठियंमिदाणं हवतिसुद्धं ।। [भा.३४४२] सन्नायगिहे अन्नोन गेण्हएतेन असमगुनातो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org