________________
३२४
व्यवहार- छंदसूत्रम् - २- ८/१८७ वृ- अथ कन्दर्पादिभिर्मार्गयति । कन्दर्पनिमित्तमन्यद्वा किढिञ्चित् शठत्वमवलम्ब्य विज्ञपयति तदा तस्य न ददति नानुजानन्ति । अथवा जमिणं सेञ्जसंधारयं लभिज्जा इत्यादि सूत्रस्यायमर्थः - शय्या एव संस्तारकः शय्या संस्तारकः । स च द्विधाफलक संस्तारकः कंचि [थि] संस्तारको वा । तस्य योग्रेतनः संस्तारकः खरकस्तत्र स्वपतः पार्श्वाणिदुःखायन्ते । ततस्तेन पूर्वमृदुकुले गत्वा मृदु संस्तारकोऽनुज्ञापितः तज्ञ आचार्यसमीपमागत्य विज्ञपयति यं यं शय्या संस्तारकं लभेत स ममैव स्यात् । तत्र यदि स्थविरा स्तस्याशठत्वमालोक्यानुजानन्ति तदा स तव [ तस्य ] स्यात् अथ शठ इति कृत्वा तस्य नानुजानन्ति तर्हि से तस्य कल्पते यथा रानिकतया शय्यासंस्तारकं परिगृहीतुं नान्यथेति एतत् पिण्डसूत्रं व्याख्यातमधुना पुनः प्रत्येकसूत्राणि व्याख्यास्यामि ।
मू. (१८८) सेय अहा लहुस्सगं सेज्जा संथारगं गवेसेज्जा । जं चक्किया एगेन हत्थेणं ओगिज जाव एगाहं अद्धाणं परिवहितए एस मे वासावासुं भविस्सइ ।।
वृ- इत्यादि सोधिकृतो भिक्षुर्यथा लघुस्वकमनेकान्त लघुकं वीणाग्रहणग्राह्यं । शय्या सर्वाङ्किका संस्तारकोर्धतृतीयहस्तदीर्धहस्तचत्वार्यङ्गुलानि विस्तीर्णः । अथवा तत्पुरुषः समासः शय्या एवं संस्तारकः शय्यासंस्तारकः तृणमयं पट्टमयं वा गवेषयेत् । तत्र यत् शक्नुयात् एकेन हस्तेनावग्रह्य यावदेकाहं वा द्व्यहं त्र्यहं वा अध्वानं गच्छन् परिवोढुं तत् गृह्णीयात् । एष मे वर्षावासे भविष्यति एष वर्षा सूत्रस्यार्थः ।
मू. (१८९) से अहा लहुसगं सेज्जा संथारगं गवेसेज्जा जं चक्किया एगेणं हत्थेणं ओगिज जावएगाह वादुयाहं वा तियाहं वा परिवहित्तए एसमे हेमंतगिम्हासु भविस्सइ ||
मू. (१९०) से अहा लहुसगं सेज्जा संधारगं जएज्जा जं चक्किया एगेणं हत्थेणं ओगिञ्च जावएगाहं वा दुयाहं वा तियाहं वा चउयाहं वा पंचगाहं वा अद्धाणं परिवहित्तए एस मे वुड्ढावासासु भविस्सइ ||
वृ एवं हेमन्तग्रीष्मसूत्रार्थी वृद्धावाससूत्रार्थश्च भावनीयः नवरं वृद्धावाससूत्रे चतुरहं वा पञ्चाहं वेत्यधिकं वक्तव्यमधुना नियुक्तिविस्तरः
[भा. ३३८४ ]
सोपुन उउम्मि घेप्पइ संथारो बुडावासे वा ।
ठाण फलगादी वा उउम्मि वासासुय दुवे वि ।।
-
वृ- स पुनः संस्तारकः स्थानं स्थानरूप ऋतुबद्धे वर्षाकाले वृद्धावासे च यथानुरुपे गृह्यते । तद्यथाऋतुबद्धे कालेऽवकाशे गृह्यते, वर्षावासे च वृद्धावासं च निवातस्थानेऽपि तथा ऋतुबद्धे काले ऊर्णादिमयः संस्तारकः परिगृह्यः पुरुषविशेषं ग्लानादिकमपेक्ष्य फलकादिर्वा वर्षावासे द्विकावपिद्वावपि संस्तारको वक्ष्यमाणलक्षणौ गृह्णीयात् ।
[भा. ३३८५ ]
उउबद्धे दुविहगहणा, लहुगो लहुगाय दोष आणादी । झामियहियवक्खेवे संघट्टणमादिपलिमंथो ।।
- द्विविधः संस्तारकः परिशाटिरुपोऽपरिशाटिरूपश्च । तत्र पारिशाटिरुपोद्विविधो झुषिरोऽझुषिरश्च तत्र शाल्यादि पलालतृणमयो झुषिरः कुशवल्ककादिरूपोऽझुषिरः । अपरिशाटिरुपो द्विविधःएकाङ्गिकोऽनेकाङ्गिकञ्च । एकाङ्गिकोपि द्विविधः सङ्घातितोऽसंघातितश्च । तत्रासङ्घातित एकफलकात्मकः संघातितोद्व्यादिफलक संघातात्मकः अनेकाङ्गिकः कंथिका प्रस्तारात्मकस्तत्र यदि ऋतुबद्धेऽकुषिरं परिशाटिं संस्तारकं गृहाति तदा तस्य प्रायश्चित्तं लघुको मासः । झुषिरंगृह्णतश्चत्वारी लघुका अपरिशाटिमपिगृह्णतश्चत्वारो लघुका न केवलं प्रायश्चित्तं किन्त्वाज्ञादयश्चदोषाः । तथा यद्यग्रिना
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International