SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ उद्देशकः-७, मूल- १८०, [भा.३३०१] ३०९ कर्तव्यं । परलिङ्गकरणं नाम यस्तस्योपधिग्रहणं । स चोपधिर्द्विधा-ज्ञातोऽज्ञातो वा । ज्ञातो नाम यथैतत्सांभोगिकस्यसाधोरुपकरणमज्ञातोनामयोनज्ञायतेकिमेषसांभोगिकस्यसाधोरुपकरणं किंवा असांभोगिकस्येति । तत्रज्ञातोऽज्ञातोवा तस्योपधिगृहीतव्यः । अथकस्मात्परलिङ्गक्रियतेततआह[भा.३३०२] मानं पिच्छंतिबहूइतिनाएवी करेइपरलिंग । गहिउंमि वि उवगरणे परलिंगचेवतंहोइ ।। वृ- मा अमुं बहवोजनाः प्रेक्षन्तामिति कृत्वा ज्ञातेऽपि तस्मिन् कालगते परलिङ्गं क्रियते । किंतत्परलिङ्गकरणमितिचेदतआह-गृहीतेचोपकरणे परलिङ्गमेवतद्भवतिसाधुलिङ्गाभावात् । सम्प्रति ज्ञातस्य वाज्ञातस्य चोपधिग्रहणे विधिमाह[भा.३३०३] सागारकडे एक्को मणुन्नदिन्नो गगहो भवे बिइतो । अमणुन्ने अप्पिणतो न गेण्हती दिज्जमाणंपि।। वृ-सागारकृतं नाम यत्स्वयं नात्मामार्थीकृतं किन्त्वाचार्या एतस्य विज्ञायकाइतिबुद्धया परिग्रहीतं तस्मिन् सागारकृतेएकप्रथमोवग्रहः । यदि सांभोगिकस्योपधिरयमिति ज्ञातस्तदा आचार्यसमीपगत्वा निवेद्य आचार्यस्य समर्पयति । तत्र यद्याचार्यो ब्रूते त्वमेवामुपमुधिं परिभुंक्ष्य ततो मस्तकेन वन्दे इति भणित्वाऽन्येषां साधूनां निवेदयति । यथा क्षमाश्रमणैरेतत् वस्त्रं पात्रं वा मह्यं दत्तमिति ततस्ते ब्रुवतेआरोग्यधारणीयं क्षमाश्रमणानांगुणैर्वर्धस्व । एवंमनोज्ञस्य सांभोगिकस्योपधेर्दत्तस्यावग्रहो द्वितीयः । अथामनोज्ञस्य स उपधिस्तर्हि तंगुरोः समर्पयति ।तंच गुरुणा दीयमानपिन गृह्णाति । असांभोगिसत्कत्वात्तर्हि कथं तत्कर्तव्यमित्याहः[भा.३३०४] इयरे सिंघेत्तूणं एगंतेपरिठवेजविहिनाउ । अन्नए संविग्गो बहिमिकुज्जाउघोसणयं ।। वृ-इतरेषामसांभोगिकानांलिङ्गमात्रोपजीविनांवासंबन्धीयदिज्ञातोभवति, तर्हि आचार्याणां तथैव निवेदनीयं, । तत्र यद्यन्त उपधिर्नास्ति ततः कारणे आचार्यो ब्रूते परिभुंक्ष्वामुपधिमिति । तेन च तथेति प्रतिपत्तव्यं । अथान्य उपधिः समस्ति तदा सूरिवचनात्तं गृहीत्वा एकान्ते परिष्ठापयेत् । अथ न ज्ञातो भवति किमयमुपधिः संविज्ञानामिति तदा अज्ञातेसंविज्ञोपधौ विधिना घोषणांकुर्यात् । मू. (१८१) सागारिए उवस्सयं वक्कएणं पउंजेजा, सेयवक्कइयं वएजा इमम्हिय इमम्हिय ओवासे समणा निगंथापरिवसंति से सागारिए पारिहारिए, सेयनोवएज्जा वक्कइएवएजा, सेसागारिए पारिहारिए दोवितेवएजा दोविसागारियापारिहारिया । मू. (१८२) सागारिए उक्स्सयविक्किणेज्जा, सेय कइयंवएज्जा इमम्हिय इमम्हिय ओवासे समणानिगंथा परिवसंति, से सागारिए, पारिहारिए, सेयनोवएजा कइए वएना सेसागारिए पारिहारिए दोविते वएजा दोविसागारियापारिहारिया ।। वृ-सागारिए उवस्सय इत्यादि सूत्रद्वयं |अस्य सम्बन्धमाह[भा.३३०५ उगह एव अहिकितो इसे उसुत्ताउ ऊगहोचेव । साहम्मियसागारिय नाणत्तमिणं दुवेण्हंपि ।। वृ-अवग्रहः पूर्वसूत्रेऽधिकृते इमे अपिचाधिकृते द्वे अपि सूत्रेऽवग्रहप्रस्तावादस्य सूत्रद्वयस्यात्रोपन्यासो नवरं पूर्वसूत्रे साधर्मिक उक्तोऽस्मिन्सागारिकः शय्यातर इति नानात्वं द्वयोरपि तदेवमुक्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy