________________
व्यवहार-छेदसूत्रम् २-७/१८० लोपस्ततः प्रथमायामितिद्रष्टव्यम् ।अष्टमीति अष्टम्यामिति ।साम्प्रतमुक्तानुक्तद्वार संग्रहार्थमाह[भा.३२६८] रत्तिदिसाथंडिल्लेसिल विंचा झामिएय उस्सन्ने ।
छेत्ता विभत्तीसीमासीयाणाचेवववहारी ।। वृ-प्रथमं रात्रिद्वारं । तच्च प्रागेव सप्रपञ्चमुक्तं । द्वितीयं दिगद्वारं तच्च भण्यमानमास्ते । तृतीयं स्थण्डिलद्वारंत्रिधा शिलारुपंबिम्बादिवृक्षादीनामधोध्यामितंचचतुर्थमुच्छन्नद्वारं । पञ्चमंक्षेत्रविभक्ते भूमिभागे द्वयोमियोः सीमायां परिष्ठापनीयमित्येवं लक्षणं षष्टे श्मशाने इति द्वारं । तत्र च व्यवहारो वक्तव्यः । एष द्वारगाथा संक्षेपार्थः । साम्प्रतमेनामेव विवरीतुकामो रात्रिद्वारं किल प्रागेव सप्रपञ्चमुक्तमतो दिग्द्वारस्य वक्तव्यशेषमाह[भा.३२६९] लभमाणे वापढमाए असतीए वाघातेवा ।
ताहे अन्नाए विदिसाए पेहेज जयणाए ।। दृ- लभ्यमानायांगाथायांपुस्त्वं प्राकृतत्वात् । प्रथमाया अपरदक्षिणस्या अभावे व्याघातेवा सति ततस्तस्याः प्रथमायादिशोऽन्यस्यादिशि द्वितीयस्यांस्थण्डिलंयतनया प्रेक्षेत । तस्याअपिलभ्यमानाया अभावे व्याघातेवासतितृतीयस्यामेवंयावच्चरमायामपिन प्रागुक्तोदोषः । तीर्थकराज्ञानुपालनपुरस्सरं यतनया प्रवृत्तेर्यदि पुनर्द्वितीयस्यां सत्यां तृतीयस्यां दोष उक्तः स प्रसजति चतुर्थ्या तृतीयोक्त एवमुत्तरोत्तरदिक्ष्वपिभावनीयं । गतं दिग्द्वारमधुना स्थण्डिलद्वारमाह[भा.३२७०] सिलायलं पसत्थं तुजत्थत्थाविफासुयं ।
झामंथंडिलमादिच्च बिंबादीनसमीवे वा ।। वृ-शिलातलं शिलातलरुपं यत्प्रशस्तं स्थण्डिलं तत्र परिष्ठापयन्ति । अथवा यत्र गोकुलमजा वा उषिता आदिशब्दादन्यथा यत् प्रासुकं तत्र यदि वा ध्यामिते अग्निना दग्धे प्रदेशे आदिशब्दात्करीषादिप्रदेशरुपेवा स्थण्डिलेवदिवा बिम्बादीनांवृक्षाणांसमीपेयत्रमहान्सार्थ उषितस्तत्रपरिष्ठापयति । गतंस्थण्डिलद्वारमधुना उस्सन्न उद्वारमाह[भा.३२७१] उस्सन्ना तिन्नि कप्पाउहोति खेत्तेसुकेसुई।
अत्थंडिलादिसासुंवा तेविजाणेज्ज पणवं ।। वृ-केषुचित्क्षेत्रेषु उसणेन बाहुल्येन बहुकालाचीर्णाः कल्पा भवन्ति । किं विशिष्टा इत्याहअस्थण्डिलास्तथाहि केषुचित् ग्रामेषु नगरेषु वा एवं रुपा मर्यादा यथा एतावति प्रदेशे मृतकं त्यक्तव्यं नान्यत्र तत्र च स्थण्डिलाभावः । ततस्तत्र धर्मास्तिकायप्रदेशनिश्श्रामुपकल्प्य परिष्ठापयेत् । यत्रापि नदीपूरेण वर्षासु स्थण्डिलप्रदेशः प्लावितो अन्यासु विदिक्षु स्थण्डिलव्याघातः । तत्रापि धर्मास्तिकायप्रदेशनिश्रया परिष्ठापनं कुर्यात् । एतच्च प्रस्तावादुक्तमन्यथा नायमाचीर्णः कल्पः तथा केषुचित् क्षेत्रेषु दिक्षु बहुकालाचीर्णाः कल्पा भवन्ति । यथा आनन्दपुरे उत्तरस्यां दिशि संयताः परिष्ठापयन्ति । ततस्तत्र तथैव परिष्ठापनं कर्तव्यं नास्ति कश्चिद्दोषः । तानपि अस्थण्डिलान् दिक्षु वा अकल्पान् प्रज्ञावान्जानीयात् । ज्ञात्वाचतथैव समाचरेदिति !गतमुत्सन्नद्वारमिदानी क्षेत्रमाह[भा.३२७२] खेत्ते विभत्तेगामे राय भएवा अदेंतसीमाए ।
__ भोइयमादीपुच्छा रायपहेसीममज्झे वा ।। वृ-क्वचित् ग्रामे कौटुम्बिकैः क्षेत्रभूमयः सर्वा अपि सीमाच्छेदेन विभक्तास्ततः समस्तंभूमण्डलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org