________________
२९८
व्यवहार-छेदसूत्रम् - २- ७ /१७९
[भा. ३२४६ ]
सगोत्तरायमादीसु गब्भत्थो विधनं सुतो । रक्खए मायर चेव किमुता जायवड्ढितो ।
वृ- गर्भस्थोऽपि यतः स्वगोत्र राजादिषु धनं जिघृक्षु धनं रक्षति । मातरं च किं पुनर्जाताः प्रवर्धितश्च स सुतरां रक्षति । तत्र यथा गर्भस्थोऽपि रक्षति तथा प्रतिपादयति ।
[भा. ३२४७ ]
वणिए मए रायसि गब्भिणि धनमिच्छतए भूपाए ।
सव्वं सुयस्स दाहं धूयाभत्तं च वीवाहं ||
वृ- एको वणिक तस्य भार्या आपन्नसत्वा वणिक् कालगतस्तः केनापि राज्ञः शिष्टं देवगुर्विण्या धनमस्ति राज्ञोक्तं तिष्ठतु तद्धनं, यदि प्रसूतायाः सुतो भविष्यति ततः सर्वं सुतस्य दास्यामो दुहितरि च जातायां यावता भक्तं यावता भक्तं यावता च वीवाहस्तावन्मान्नं दास्यामः । एवं गच्छेऽपि गर्भस्थोऽपि सुतो राज्ञः स्वगोत्रेभ्यश्च धनं रक्षति मातरं च अन्यथा स्वगोत्रजै राज्ञा वाद्यापि तव पार्श्वे धनमस्तीति बहुधा विलुप्यते । भावितं लोकिकमुदाहरणमधुना लोकोत्तरं भावयति । लोउत्तरिए अज्जा खुड्डुगबोहिहरणी पसरणीयं ।
[भा. ३२४८ ]
चोरो य रणं कूवे सामत्थण वारणालेठ्ठा | | ( धू) (लद्धा) ||
वृ- लोकोत्तरिकोऽयं दृष्टान्तः । क्वचित् ग्रामे मालव शबरानीकमापतितं । तत्र कैश्चित् बोधिकैश्चौरैरार्यिकाणामेकस्य च क्षुल्लकस्य हरणं कृतं ते चौरा अन्यस्यैकस्य चौरस्यार्थिकाः क्षुल्लकं च समर्प्यन्यस्य हरणाय गताः सचैकश्चौरस्तृषापीडितः सन् कुपे पानीयायावतीर्णः । ततः क्षुल्लकञ्चिन्तयति वयमेतावत्संख्याका बहवोऽयमेकस्ततः किमेकस्यापि न प्रभविष्याम इति विचिन्त्य ता आर्यिका भणिताः । पाषाणपुज्जमेनं कुर्मस्तानेच्छन्ति मा मारयिष्यतीति कृत्वा ततः क्षुल्लकेन तद्वचो श्रुत्वा महानेकः पाषाणस्तस्योपरि मुक्तस्ततः पश्चात्ताभिः सर्वाभिरेककालं पाषाणा मुक्तास्ततः स षाषाणपुजेनाक्रान्तश्चौरो मरणमुपागमत् । ततः क्षुल्लकेन तास्ततो निष्काशिता एवं क्षुल्लको रक्षति किं पुनर्महान् तत एतेन उपाध्याय आचार्यश्च त्रिवर्षपञ्चवर्षपर्यायस्त्रिंशत् षष्टि वर्षपर्यायाणामपि गीतार्थानामपि दीयते ।
भू. (१८०) गामानुगामं- दूइजमाणे भिक्खू य आहच्च वीसंभेजा तंच सरीरगं केइ साहम्मिए पासेखा कप्पइ सेतं सरीरगं न सागारियमिति कट्टु थण्डिले बहुफासुए पडिलेहिता पमञ्जित्तापरिठवेत्तए, अत्थियाइंथकेइ साहम्मिय संतिए उवगरणजाए परिहरणारिहे, कप्पइसे सागारकडं गहायदोच्चंपि ओग्गह अनुन्नवेत्ता परिहारं परिहारेत्तए ।।
[ भा. ३२४९ ]
अतिरेगड्डा उबट्टा सट्ठी परिया य सत्तरी जम्मं । जरपागं मानुस पडणं एक्कस्स संबंधी ।।
वृ- अनन्तरसूत्रे अतिरेकार्थमतिरेकप्रतिपादनार्थमाचार्यस्योपाध्यायस्य च उपस्था उपस्थापनं कृतं, तत्र षष्ठिपर्यायं सप्ततिवर्षजन्मकं मानुषं जरापालं भवति । जरसा एकस्य पतनं तच्चपतनमनेन सूत्रणाभिधीयते एष सूत्रसम्बन्धः । अनेन सर्वसम्बन्धेनायातस्यास्य व्याख्या । गामानुगामं दूइज्रमाणे इति विहरन् आह कदाचित् शरीरात् विध्वकपृथग भवेत् भ्रियते इत्यर्थः । तत्र शरीरकं केचित्साधर्मिकाः संयताः पश्येयुस्तत्र तस्य साधर्मिकस्य तत् शरीरं मा सागारिकं भवत्विति कृत्वा एकान्ते विविक्ते अचित्ते स्थण्डिले बहुप्राशुके कीटिकादिसत्वरहिते प्रत्युपेक्ष्य प्रमार्ण्य च परिस्थापयितुं अत्थिया इत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org