________________
उद्देशक : -७, मूल - १७७, [ भा. ३२२५ ]
विजासाणवेगुणधम्मया एवमाकुणसु ।।
वृ- अस्वाध्यायिके पठन श्रुतज्ञानस्याभक्तिविराधनाकृता भवति, तद्विराधनायां दर्शनविराधना चारित्रविराधनाच तद्भावे मोक्षाभावः । तथा लोकविरुद्धमिदंयधात्मनो अस्वाध्यायिकेपठनं तथाहिलौकिका अपि व्रणे आर्तवेच परिगलति परिवेषणं देवतार्चनादिकंवा (न) कुर्वन्ति । तथा प्रमत्तीभूतस्य प्रान्तदेवतया च्छलना स्यात्तथा विद्या उपचारमन्त्रेण साध्यमाना साधनवैगुण्यधर्मतया न सिध्यति । तथा श्रुतज्ञानमपि तस्मान्मैवं कार्षीः । अत्र परावकाशमाह
[भा. ३२२६]
चोएइ जइ एवं सोणियमादीहिं होइ सज्झाती । तो भरितोच्चियदेहो एएसिं किंह नु कायव्वं ॥
- परचोदयति यद्येवमुक्तप्रकारेणास्वाध्यायो भवति तत एतेषां शोणितादीनां देहो भूत इति तत्र कथं तु कर्तव्यम् । तस्मिन् सति कथं स्वाध्यायः । अत्र सूरिराह
[भा. ३२२७]
कामं भरितो तेसिं दंतादी अवजुया तह विवज्जा ।
२९५
अनवजुयाउ अवज्जा लोए तह उत्तरे चैव ।।
वृ- कामं मन्यामहे एतत्तेषां शोणितादीनां भृतो देहस्तथापि ये दन्तादयोऽवयुताः पृथग्भूतास्ते च वर्ज्या वर्ज्यनीयाः । ये त्वनवयुताः अपृथग्भूता लोके उत्तरेच अवर्ज्या अपरिहर्तव्याः । एतदेव भावयति[भा. ३२२८] अब्भंतर मललित्तो कुणति देवाणमच्चणं लोए ।
बाहिर मलालित्तो पुन न कुणइ अवनेइ च ततोणं ।।
वृ- अभ्यन्तरमललिप्तोऽपि देवानामर्चनं लोके करोति । बाह्यमललिप्तः पुनर्न करोति अपनयतिवा मलं ततः शरीरादेवमत्रापि भावनीयम् ।
[ भा. ३२२९]
आउट्टियावराहं सन्निहिया न खमए जहा पडिमा ।
इय परलोए दंडो पमत्त छलणा इह सियाउ ।।
बृ- उपेत्यकृतमपराधं सन्निहितासन्निहित प्रातिहार्या प्रतिमा न क्षाम्यति । इति एवममुना प्रकारेण श्रुतज्ञानमप्युपेत्य कृतमपराधं न क्षमते । तत्र परं लोके दुर्गतिप्रपातो दंड इहलोके प्रान्तदेवता छलना स्यात् ।
[भा. ३२३० ]
रागा दोसा मोहासज्झाए जो करेइ सज्झायं ।
सायणावकासे को वा भणितो अनायारो ।।
वृ- रागात् द्वेषात् मोहाद्वायोऽस्वाध्याये स्वाध्यायं करोति, से तस्य का कीदृशी फलत आशातना को वा कीदृशाः फलद्वारेण भणितोऽनाचारः । तत्र रागद्वेषमोहात व्याख्यानयति
[भा. ३२३१]
गणिसद्दमाइमहितो रागदो संमि न सहते सद्दं । सव्वमसज्झायमयं पमादी होइ मोहाओ
- गणी आचार्य आदिशब्दादुपाध्यायो गणावच्छेदकः इत्यादि परिग्रह एवमादिभिः शब्दैर्महित उत्कर्षितो योऽस्वाध्यायं करोति स रागे द्रष्यव्यो । यस्त्वन्यस्य गणिशब्दमुपाध्याय शब्दं वा न सहते, अहमपि पठित्वा गणी उपाध्यायो भविष्यामि । इति विचिंतयन्नादरपरोऽस्वाध्यायेऽपि स्वाध्यायं विदधाति, स द्वेषेऽवसातव्यः । यस्तु सर्वमस्वाध्यायमयमित्येवमादि विचिन्त्यास्वाध्याये स्वाध्यायं करोति एष भवति मोह इति । सम्प्रत्याचार्य फलद्वारेणाशातनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org