________________
उद्देशक :- ७, मूल- १७६. [भा. ३१५२]
२८३
द्वादशभूयस्तो भूमयः कालस्य तद्यथा- आसन्ने दूरे मध्ये एताश्चोपाश्रयपरिघस्यान्तर्वेदितव्याः । सर्वसंख्यया चतुर्विंशतिभूमीः प्रत्युपेक्षते । एतदेवाह
[भा. ३१५३]
अहियासिया य अंतो आसन्ने चेव दूरे मज्से य । तिनेव अनहियासी अंतो छ छच्च बाहिरतो ।। एमेवय पासवणा बारस चडवीसतिं तु पेहिता । कालरस य तिनि भवे अह सूरो अत्थमुवयाति ।।
[भा. ३१५४]
वृ- अध्यास्या अध्यासनीया उपाश्रयपरिधस्यान्तस्तिस्त्रो भूमयस्तद्यथा- आसन्नेदुरमध्येच एवमेव तिस्त्रो मध्येऽनध्यास्या अध्यासितुमशक्याः सर्वसंख्याया अन्तरुच्चारस्य भुमयः षट् एवमेव षट् परिधाद्बहिरपि सर्वसंकलनया द्वादशोच्चारभूमय एव प्रश्रवणेऽपि द्वादशभूमयः सर्वमीलने चतुर्विंशतिं भूमीः प्रत्युपेक्षते । तदनन्तरं कालस्य तिस्त्रो भूमयः जधन्येन हस्तान्तरिताः प्रत्युपेक्ष्य भवन्ति । तासुच प्रत्युपेक्षितास्तथानन्तरं सूर्योऽस्तुमुपयाति ।
[भा. ३१५५] जइ पुन निव्वाघातो आवस्संतो करेति सव्वेवि । सड्डादिकहणवाधाय याए पच्छा गुरु ठंति । ।
वृ-सूर्यास्तमयसमये यदि निर्व्याघातं व्याघातस्याभावो गाथायां पुंस्त्वं प्राकृतत्वात् । ततः सर्वेऽपि गुरुप्रभृतय आवश्यकं प्रतिक्रमणं कुर्वन्ति । अथ श्राद्धानां श्रावकांणामादिशद्वादश्राद्धानां वा धर्मो गुरुणां कथयितव्योऽस्ति । ततः श्राद्धादीनां धर्मकथनेनव्याघातनायामावश्यकव्याघाते सति पश्चादुवो निषद्याधरसहिता आवश्यके तिष्ठन्ते । इयमत्र भावना - श्राद्धादीनां धर्मः कथयितव्यो भवति । तत आचार्यों धर्मं कथयति । निषद्याधरश्च पार्श्वे तिष्ठति । शेषाः पुनरावश्यकभूमौ सूत्रार्थस्मरण निमित्तमाचार्यमापृच्छय आत्मीये स्थाने पश्चादागच्छतामवकाशपथमरुद्धाबलं वीर्यं चागूहयन्तो यथाशक्ति चारित्रकायोत्सर्गेण तिष्ठन्ति । स्थित्वा च सूत्रार्थान् तावदनुप्रेक्षन्ते, यावदचार्यः कायोत्सर्गेण स्थितो भवति । तस्मिन् स्थिते दैवसिकमतीचारं चिन्तयन्ति । एतदेवाह
3
[ भा. ३१५६ ]
सेसाउजहासत्ति आपुच्छित्ताण ंति सड्डाणे ।
सुत्तत्थज्झरणहेउं आयरियठियंमि देवसियं ।।
वृ- गुरुणा श्राद्धादीनां पुरतो धर्मकथने प्रारब्धे शेषाः साधवी गुरुमापृच्छ्य सूत्रार्थस्मरणहेतोः स्वसमिन् स्वस्मिन् स्थाने यथाशक्ति कायोत्सर्गेण स्थिता भवन्ति । आचार्ये कायोत्सर्गेण स्थिते दैवसिकमतीचारं चिन्तयन्ति । अत्रैवापवादमाह
[भा. ३१५७ ] जो हो असमत्यो बालो बुढोव रोगितो वावि । . सो आवस्सगजुत्तो अत्थेज्जा निजरापेही ।।
-
यो बालो वृद्धो रोगितो वा सञ्जातरोगः कायोत्सर्गेण स्थातुमसमर्थः स निर्जरापेक्षी आवश्यकयुक्तोऽवश्यकर्तव्यव्यापारयुक्त उपविष्टस्तिष्ठेत् ।
[ भा. ३१५८]
आवस्सयं काऊणं जिनोवइडुं गुरुवएसेण ।
तिन्निथुतिपडिलेहा कालस्स विही इमो तत्थ ।।
वृ- आवश्यकं जिनोपदिष्टं गुरुपदेशेन कृत्वा पर्यन्ते तिस्रः स्तुतयः प्रवर्धमान वक्तव्याः । तद्यथाप्रथमा एकश्लोकिका, द्वितीया द्विश्लोकिका, तृतीया त्रिश्लोकिका तदनन्तरं कालस्य प्रत्युपेक्षा कर्तव्या ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International