________________
उद्देशक :-७. मूल- १७६, [भा.३१३२]
२७९ मतान्तरमाह-अविभिन्ने इत्यादि । एकेप्राहुर्यदिमार्जारादिनामूषिकादिरविभिन्न एवसन्मास्तिो मारयित्वा च गृहीत्वा अथवा गिलित्वा यदि ततः स्थानात् पलायते तदा पठन्ति, साधवः सूत्रं न कश्चिद्दोषः, अन्येनेच्छन्ति । यतः कस्तंजानाति अविभिन्नो वा मारित इति । अपरे पुनः एवमाहुर्यत्र मार्जारादि: स्वयंमृतो अन्येन वा केनाप्यविभिन्न एवं सन्मारितस्तत्यावत्तत्कलेवरंन भिद्यतेतावन्नास्वाध्यायिक विभिन्नेऽस्वाध्यायिकमिति तदेतदसमीचीनं यतश्चर्मादिभेदतश्चतुर्विधमस्वाध्यायिकं तस्मादविभिन्नेऽप्यस्वाध्याय एव । [भा.३१३३] अंतो बहिंच भिन्ने अंडबिंदूतह वियायाए ।
रायपह बूढ सुद्धे परवयणेसाणमादीनि ।। वृ- अन्तरुपाश्रयस्य मध्ये यदि चोपाश्रयाद्वहिः षष्टिहस्ताभ्यन्तरे अण्डके पतिते यदि तदण्डकमभिन्नमद्याप्यस्तितदातस्मिन्नज्झितेस्वाध्यायःकल्पते । अथवापतितंसदण्डकंभिन्नंतस्य चाण्डकस्य कललबिन्दुर्भूमौ पतितस्तदा भिन्ने अण्डके बिन्दौ च भूमौ पतिते न कल्पते स्वाध्यायः । अथकल्पेयतितंसदण्डकंभिन्नकललबिन्दुर्वा तत्रलग्नस्तदा तस्मिन्पष्टिहस्तेभ्यः परतो बहिर्नीत्वाधौते कल्पते । तथा विजातायां प्रसूतायां तैरश्च्यामस्वाध्यायः पौरुषी त्रितयं यावत् तथा ये राजपथे अस्वाध्यायिक बिन्दवो गलितास्तेन गण्यन्ते । तथान्यत्र प्रतिपतित एवास्वाध्यायिकं ततो वर्षोदक प्रवाहेन तस्मिन्व्यूढेकल्पते । अत्रश्चादिकमाश्रित्य परस्यवचनं तदाग्रभाव इष्यतेइतिगाथासंक्षेपार्थः । [भा.३१३४] अंडयमुज्झियकप्पे नयभूमिखणंति इहरेहातिन्नि ।
असज्झाइयपरमाणंमच्छियपायाजहिंखुप्पे ।। वृ- यद्यण्डकमभिन्नमेव पतितं तदा तस्मिन्नुज्झिते स्वाध्यायः कल्पते, अभिन्नं तदा कल्पते, अथ भिन्नं तदा न कल्पते । नचभूमि खनन्ति, इतरथाभूमिखननेन यदि तदस्वाध्यायिकमपनयन्ति तथाहि तिस्त्रः पौरुषीर्यावदस्वाध्यायः । अण्डकविन्दोरस्वाध्यायिकस्य प्रमाणं । यत्रमक्षिकापादा निमजंति । किमुक्तंभवति? यावन्मात्रेमक्षिकापादोब्रुडतितावन्मात्रेऽप्यएडकविन्दो भूमौपततिअस्वाध्यायः । [भा.३१३५] अजराउ तिन्निपोरिसि जरा उयाणंजरे पडिए तिन्नि।
निजंतुवस्स पुरतो,गलियंजति निग्गलं होज्जा । वृ- अजरायुः प्रसूता तिस्त्रः पौरुषी स्वाध्यायं हन्ति, अहोरात्रं च्छेदं मुक्त्वा अहोरात्रे तु च्छिन्ने आसन्नायामपिप्रसूतायांकल्पतेस्वाध्यायोजरायुजानांयावजरायुलम्बतेतावदस्वाध्यायो, जरायौपतिते सति तदनन्तरं तिस्त्रःपौरुषीर्यावदस्वाध्यायः तथा उपाश्रयस्य पुरतो नीयमानं तदस्वाध्यायिकं गलितं भवति । तदापौरुषीत्रयंयावदस्वाध्यायो, यदिपुनर्निर्गिलंभवेत्तदातस्मिन्नीतेस्वाध्यायः रायपहबूटेति[भा.३१३६] रायपहेनगणिज्जति अह पुन अन्नत्थपोरिसी तिन्नि ।
अह पुन बूढं होज्जा वासो देणंततो सुद्धं ।। वृ-राजपथे यद्यस्वाध्यायिकबिन्दवो गलितास्तदा तदस्वाध्यायिकं न गण्यते किं कारणमिति चेदुच्यते-यतस्ततःस्वयोग्यतआगच्छतांचमनुष्यतिरश्चां पदनिपातैरेवोत्क्षिप्तं भवति । जिनाज्ञाचात्र प्रमाणमतो न दोषः । अतः पुनस्तदस्वाध्यायिकं तैरश्चं राजपथादन्यत्र षष्टिहस्ताभ्यन्तरे पतति तदा तिस्त्रःपौरुषीर्यावदस्वाध्यायः । अथ तदपि वर्षोदकेन व्यूढं भवेत् । उपलक्षणमेतत् प्रदीपनकेन वा दग्धंतदाशुद्धं तत्स्थानमिति कल्पतेस्वाध्यायः । सम्प्रतिपरवयणेसाणमादीणइतिव्याख्यानयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org