________________
२७६
व्यवहार- छेदसूत्रम् - २- ७ / १७६ चन्द्रे तु तस्यामेव रात्री मुक्ते यावदपरश्चन्द्रो नोदेति तावदस्वाध्याय इति सैव रात्रि परंपरं च दिनमित्येषमहोरात्रमस्वाध्यायः । अन्ये पुनराहुराचीर्णमिदं चन्द्रो रात्रो गृहीतो रात्रावेव मुक्तस्तस्या रात्रेः शेषंवर्जनीयं यस्मादागामिसूर्योदये समाप्तिरहोरात्रस्य जाता । सूर्योऽपि यदि दिवा गृहीतो दिवैव मुक्तस्तस्तस्यैव दिवसस्य शेषं रात्रिश्च वर्जनीया इति । तथा निर्धात गुञ्जितयोः प्रत्येकं यस्यां वेलायां निर्धातो गुञ्जितं वाऽधिकृतं दिनेऽभवत् द्वितीयोऽपि दिने यावत्सैव वेला प्राप्ता भवति, तावदस्वाध्याय एव तयोरप्यस्वाध्यायस्याहोरात्रप्रमाणत्वात् । उक्तं च-निग्घातो गुंजियं च लोकप्रतीता एए। अहोरतं उवहनंतित्ति तथा ।। [ भा. ३१२०]
चउसंज्झासु न कीरइ पाडिवएसुं तहेव चउसुपि । जो जत्थ पूजतीतु सव्वहिं सुगिम्हतो नियमा ।।
7
वृ- चतस्त्रः सन्ध्यास्तिस्रो रात्रौ तद्यथा-प्रस्थिते सूर्ये अर्धरात्रे प्रभाते च चतुर्थीदिवसस्य मध्यभागे एतासु चतसृष्वपि स्वाध्यायो न क्रियते । शेष क्रियाणां तुप्रतिलेखनादीनां न प्रतिपेधः स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषास्तथा चतस्त्रः प्रतिपदस्तद्यथा-आषाढपौर्णमासी प्रतिपत् १, इन्द्रमह प्रतिपत् २, कार्तिक पौर्णमासी प्रतिपत् ३, सुग्रीष्म प्रतिपत् ४, चैत्रपौर्णमासी प्रतिपदित्यर्थः, एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते न शेष क्रियाणां प्रतिषेधः । इह प्रतिपद्ग्रहणेन प्रतिपत् पर्यन्ताश्चत्वारो महाः सूचिताः । इत्येषां तु चतुर्णां महानां मध्ये यो महो यस्मिन् देशे यतो दिवदारभ्य यावन्तं कालं पूज्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति, प्रतिपत् पुनः सर्वेषां पर्यन्तः । सव्वेसिं जाव पडिवतो इति वचनात् । सुग्रीष्मकश्चैत्रमासभावी पुनर्महामहः । सर्वेषु देशेषु शुक्लपक्ष प्रतिपद्य आरभ्य चैत्रपूर्णमासी प्रतिपत्पर्यन्तो नियमात्प्रसिद्धस्ततो यद्यध्वानं प्रतिपन्नस्तथापि चैत्रमासस्य शुक्लपक्ष प्रतिपद आरभ्य सर्वं पक्षं पौर्णमासी प्रतिपत्पर्यन्तं यावदवश्यमनागाढो योगो निक्षिप्यते । शेषेषु आगाढादिकेषु योगो न क्षिप्यते केवलं स्वाध्यायं न कुर्वन्ति । गतं सदेवमस्वाध्यायिकमिदानीं व्युद्ग्राहमाह
[भा. ३१२१]
युग्गह दंडियमादी संखोभ दंडिएय कालगतो ।
अनरायए य सभए जच्चिरनिदोच्चाहोरतं ।।
वृ - व्युद्ग्रहे परस्पर विग्रहे दण्डिकादीनामादिशब्दात् सेनापत्यादिनां च विग्रहे अस्वाध्यायः । इयमत्र भावना- द्वौ दण्डिकौ सस्कन्धावारौ परस्परं संग्रामं कर्तुकामौ । यावन्नौपशाम्यतस्तावत्स्वाध्यायः कर्तुं न कल्पते किं कारणमिति चेतुच्यते तत्र वानमन्तराः कौतुकेन स्वस्वपक्षेण समागच्छन्ति, ते च्छलयेयुर्भूयसांच लोकानामप्रीतिर्वयमेवं भीता वर्तामहे कामप्यापदं प्राप्स्याम एते च श्रमणका निर्दुःखं पठन्ति । अत्रादिशब्दव्याख्यानार्थमिमां गाथामाह
[भा. ३१२२]
सेनाहिव भोइय महत्तरपुंसित्थीणं मल्लजुद्धे वा । लोठादिभंडणे वा गुज्झ उड्डाह अचियत्तं ।।
वृ-द्वयोः सेनाधिपत्योर्द्वयोर्वा तथाविध प्रसिद्धपात्रयोः स्त्रियोः परस्परंव्यूद्गहे वर्तमाने अथवा मल्लयुद्धे तथा द्वयोर्ग्रामयोः परस्परे सकलुषभावे बहवस्तरुणाः परस्परं लौटैर्युध्यन्ते । यदिवा बाहुयुद्धादिभिस्ततो लोष्टादिभिर्वा परस्परं भएडने कलहे यावन्नोपशमो भवति सेनाधिपादिर्व्युद्ग्रहस्य तावदस्वाध्यायः । अत्र कारणमाह-गुज्झगउड्डाह अचियत्तं गुह्यकाः कौतुकेन दण्डिके कालगते अन्नाराएयत्ति यावदन्यो राजा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International