________________
उद्देशक :
5:-७, मूल- १७०, [भा. २९५०]
२४९
,
दिक्विकृष्टा उद्दिश्यते, कस्य वा नेति, तदधिकृतसूत्रद्वयेनाभिधातव्यमिति सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-न कल्पते निर्ग्रन्थीनां व्यतिकृष्टामतिशयेन क्षेत्रतो भावतश्च विकृतां दिशमनुदिशं वा उद्देष्टुमनुज्ञातुं नापि स्वयं धारयितुं तथा कल्पते निर्ग्रन्थानां क्षेत्रतो भावतश्च व्यतिकृष्टां दिशमनुदिशं वा स्वयं धारयितुं वा इत्येष सूत्रद्वयाक्षरार्थः । सम्प्रतिभाष्यम्दुविहंपिय तिविगिठं निग्गंथीनुद्दिसंति चउगुरुगा । आणाइणीय दोसा दितो होइ कोसलए ।।
[भा. २९५१]
वृ- द्विविधामपि विकृष्टां क्षेत्र विकृष्टां भावविकृष्टां चेत्यर्थः निर्ग्रन्थीनां दिशमुद्दिशति तस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः आज्ञादयश्च दोषाः । तत्र क्षेत्रविकृष्टां दिशमुद्दिशतो ये दोषास्तत्र कोशलको भवति दृष्टान्तस्तमेव भावयति ।
[भा. २९५२]
उवसामिया जयंतेन कोसलेणं गते य सातंमि । तं चैव ववदिसंती दिखती दिक्खंता अन्नगच्छंमि ।। वारिजंती विगया पडिवणा साय तेय पावेणं । जिनवयण बाहिरेणं कोसलएणं अकुलएणं ।।
[भा. २९५३]
वृ- एकः कोशलकः कोशलदेशोत्पन्न इत्यर्थः । तेन अन्यदेशं गतेन यतमानेन सदनुष्ठानपरायणेनकापि श्राविका उपामिता । सच कोशलकः स्वदेशं गतस्तस्मिंश्च गते सा श्राविकाऽन्यस्मिन् गच्छे तत्र गते तस्य समीपे निष्क्रमितुमुपस्थिता यथा मां निक्रामयत परं मम स एव कोशलकः आचार्यः, । एवं सा तमेव व्यपदिशन्ती तै दीक्षिता सा च दीक्षाप्रतिपत्त्यनन्तरं वार्यमाणापि कोशलसमीपे गता । सा च तेन पापेन जिनवचनबाह्येनाकुलजेन कोशलेन प्रतिपन्ना । एष दोषः । क्षेत्रविप्रकृष्टां दिशमुद्दिशतः । [भा. २९५४] कोसलए किं कारणगहणं बहुदोसलो उ कोसलतो ।
तम्हा दो सुकडया गहणइह कोसले अविय ।।
वृ- किं कारणमत्र कोशलकस्य ग्रहणं कृतम् ? सूरिराह यस्मात्कोशलको देशस्वभावात् बहूदोषान् लाति आदत्ते । अतिबहुदोषलो बहुदोषवान् तस्मात् दोषोत्कटतयात्र कोशलस्य ग्रहणमंपि चअंध अकूरमययं अवि य मरहट्ट्यं अवगिल्लं ।
[भा. २९५५]
कोसलयं च अपावं सएस एकं न पेच्छाम्मो ।।
वृ- अन्ध्रमन्ध्रदेशोत्पन्नमकूरमतकमक्रूराभिप्रायमपि च महाराष्ट्रकमवोगिल्लमवाचालं कोशलकं चापापं शतेषु मध्ये एकं न प्रेक्षामहे इति प्रसिद्धिरतः कोशलग्रहणं । पुनरपि प्राह
[भा. २९५६ ]
कोसलए जो दोसा उदिदस्संतंमि किन्न सेसाणं ।
ते तेसिंहोज वन वा इमेहिं पुने नोद्दिसे तेवी ।।
वृ-ये दोषाः कोशलके दिशमुद्दिशति ते किं न शेषाणां दिशमुद्दिशन्ति । किं न भवन्ति भवन्त्वेति भावः । सुरिराह ते दोषास्तेषां भवेयुर्वा न कोशलके पुनर्नियमाद्भवन्ति देशविदेशजन्मनोऽपि गुणदोषा हेतुत्वात्ततः कोशलोपादानं । एतैः पुनर्वक्ष्यमाणैः कारणैस्तानपि शेषदोषोत्पन्नान् क्षेत्रविकृष्टा न्नोद्दिशेत् । अन्न उद्दिसिऊणं निक्खता वा सरागधम्मंमि । अणोणंमि ममत्तं न हुअग्गाणंपि संभवति ।।
[भा. २९५७]
वृ-वा शब्दो दूषणान्तरसमुच्चये । यद्यकालभाविनि सरागधर्मेऽन्यमाचार्यमुद्दिश्य निष्क्रान्ता परम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org