________________
२३८
व्यवहार-छेदसूत्रम् - २७/१६३
वृ- त्रिः कृत्व आवृत्ते प्रायश्चित्तं लघुको मास स्ततः परं भूयः संसर्गि करणे सोऽविशुद्ध इति गुरुको मासस्तं च विष्वक विसंभोगं करोति । योऽपि तं संभुक्ते तस्यापि प्रायश्चित्तं चत्वारो गुरुकाः । अथ कस्मात् वारयात् परं भूयः संसर्गिकृतो विसंभोगः क्रियते इत्यत आह
[भा. २८९८ ]
सति दोन्नि तिन्निवावी होन अमाईसु मा तेन परं ।
सुद्धस्स होति चरणं माया सहिते चरण भेदो ।।
वृ- सकृदेकवारं द्वौ त्रीन् वारान् भवेदमायी ततस्तृतीयान् वारान् परं संसर्गिकरणेमाची अथच शुद्धस्य भवति चरणं मायासहिते तु चरणभेदः चरणाभावस्ततो विसंभोगः क्रियते । एवंतु पासत्थादिएसु संसग्गिवारिआ एसा । समणुन्नेवि अपरिच्छित्ते विदेसमादी गते एवं ।।
[ भा. २८९९]
वृ- एवमुक्तेन प्रकारेण एषा दानग्रहणाभ्यां संसर्गि वारिता । एवं समनोज्ञेऽपि विदेशादौ गते अपरीक्षिते संसर्गिर्वारिता द्रष्टव्या सह संसर्गिः परीक्ष्य कर्तव्याः नान्यथेति भावः । । सम्प्रति दूरे साहारणं काउमित्यस्य विभावनार्थमाह
[भा. २९०० ]
समणुन्नेसु विदेसं गतेषु पच्छगेहोज अवसन्ना । तेवितहिं गंतु मना आहत्थि तहिं मणुन्नाणे ।।
बृ- कस्याप्याचार्यस्य समनोज्ञेषु सांभोगिकेषु विदेशं गतेषु पश्चादागत्य सांभोगिकाः केचिद् भिक्षाद्यलाभेनावसन्ना भवेयुस्ततस्तेऽपि तत्र विदेशं गन्तुं मनस आचार्यं पृच्छंति सन्ति तत्रकेचिदस्माकं मनोज्ञाः सांभोगिकाः ।। [भा. २९०१]
अस्थित्ति होइ लहुतो कयादिउसन्न भुंजणे दोसा । थिवि लहुतो भंडण नक्खित्तकहनेव पाहुण्णं ।
बृ- एवमुक्ते यद्याचार्यो वदति सन्ति तत्र न संभोगिकास्तदाप्रायश्चित्तंभवति तस्य लघुको मासः किं कारणमिति चेदत आहकदाचित्तेऽवसन्नी भूता भवेयुस्ते च प्राधूर्णिकास्तत्रगतास्तैः सह भुंजते, भुंजानानां च चतुर्गुरुकं प्रायश्चित्तं यत एवं दोषास्तस्मात्सन्तीतिन वक्तव्यमत्राचार्यो ब्रूयात्-न सन्तीति तदपि मासो लघुकः कस्मादिति चेत् भण्डनदोषात्तनाहि ते तत्र प्राप्तास्तेषां नास्ति केनापि गृहीते तैर्वस्तव्यैरुक्तमस्माकं ते सांभोगिकास्ततस्तैः प्राधूर्णका उक्ताः । कस्माद्वसतौनोत्तीर्णाः । प्राधूर्णकै रुक्तमस्मभिः क्षमाश्रमणाः पृष्टाः सन्त्यस्माकं तत्र सांभोगिकास्तैरुक्तं न सन्ति । एवं वास्तव्यानामग्रीतिर्जाता किमस्माभिः कृतं यद्वयं विसंभोगाः कृतास्तदनन्तरं परुषमपि भाषन्ते ततो भण्डनं तथैव चाप्रीत्या मासपयोग्यं वर्षाप्रायोग्यं वा न कथयन्ति । नच प्राघूर्णकत्वं कुर्युर्यरमादेते दोषास्तस्मादाचार्येणैवं वक्तव्यम् ।।
[भा. २९०२]
आसि तथा समगुन्ना भुंजह दव्वाइएहिं पेहिता । एवं भंडणदोसा न होंति अमणुन्न दोस य ।।
बृ- यदास्मात् देशात् निर्गतास्तदा समनोज्ञाः सांभोगिका आसीत् आसीरन् । इदानीं न जानीमः किमनुपालयन्ति सांभोगिकत्वं वा नेति । केवलं द्रव्यादिभिद्रव्यतः क्षेत्रतः कालतो भावतश्चप्रेक्ष्य परीक्ष्य सभुंग्धमित्येवमाचार्येणोक्तेन भण्डनदोषा नाप्यमनोज्ञदोषा भवन्तीति ।।
[भा. २९०३ ] नायमनाए आलोयणाउ अनालोइए भवे गुरुगा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org