________________
२१६
व्यवहार - छेदसूत्रम् - २ - ६ / १५४ अभावे एकस्या एव कायिक्या भूमेस्तस्य योग्यं पृथक् अवकाशं भूत्या लक्षयति वृषभो यथा साधवस्तं परिहरन्ति । तथा चाह-मा कोऽपि त्वग्दोषव्याधितस्य दूषितं मोकं प्रश्रवणं पादैराक्रमेत् । आक्रमेण को दोष इत्यत आह- आक्रान्ते तस्य प्रश्रवणे चरणतलेषु पादतलेषु त्वग्दोषव्याधिः संक्रामति । तथा तस्य त्वग्दोषव्याधितस्य येनावकाशेन निष्क्रमणं प्रवेशो वा तमवकाशं भूत्या लक्षयति । येन साधवस्तमपि परिहरन्ति । अपरिहरणेऽनन्तरोदित एव दोषः ।।
[भा. २७८६ ]
निंती व सो काउतली कमेसुं संथारतो दूर अदंसणेवी । मा फासदोसेण कमेज तेसिं तत्थिक्कवत्थादिवि परिहरति । ।
वृ- सस्पन्दमानत्वग्दोषी क्रमयोः पादयोस्तलके उपानहौ कृत्वा निर्गच्छति प्रविशति वा । योऽप्यस्पन्दमानत्वग्दोषी तस्यापि कायिकी भूमिर्विष्वक् क्रियते न पुनः पृथग् भूमिनिर्गमप्रवेशस्थानम् । ।सम्प्रतिस्पन्दमानस्यास्पन्दमानस्य च स्पर्शविषयां साधारणां यतनामाह- अस्पन्दनेऽपि त्वग्दोषे आस्तां स्पन्दमाने इत्यापि शब्दार्थः । संस्तरको दूरे क्रियते मा स्पर्शदोषेण तेषां शेपसाधूनां व्याधिः संक्रमेदिति हेतोस्तथा न केवलं दूरे संस्तारकः क्रियते । किन्तु तेन त्वग्दोपवता यत्स्पृष्टं वस्त्रादि तत्परिहरन्ति । पूर्वोक्तादेव दोषात्तदेवं प्रश्रवणयतनास्पर्शयतना च सप्रपञ्चोक्ता ।।
[भा. २७८७ ] नय भुंजतेगडा लालादोसेण संकमति वाही ।
सेओ से वन्निज्जइ जलपडलंतरप्पो य ।।
वृ- नच एकार्थे एकस्मिन्पात्रे तेन त्वग्दोषवता सह साधवो भुंजते । कुत इत्याह यतो लालादोषेण संक्रामति व्याधिः । तथा स तस्य त्वग्दोषवत स्वेदप्रस्वेदो वर्ज्यते । तथा जल्लः शरीरमल्लस्तथा तत्सत्कानि पात्रपटलानि तथा आन्तरकल्पश्च परिह्रियते व्याधिसंक्रमभयात्तथा चाहएएहिं कमइ वाही एत्थं खलु सेउएण दिठतो ।
[भा. २७८८]
कुइय कच्छुयसिवं नयनामय कामलादीया । ।
वृ- एतैर्जल्लादिभिर्व्याधिस्त्वग्दोषव्याधिः संक्रामति । अत्र दृष्टान्तः खलु सेतुकेन (सिद्धकेन) तत एतानि परिहियन्ते । किं नाम त्वग्दोष एव उतान्यस्मिन्नपि रोगे तत आह-कृष्टे क्षयव्याधौ कच्छां पामायामशिवे शीतलिकायां नयनाऽमये नयनदोषे कामलादावेषा अनन्तरोदिता प्रश्रवणादिविषया यत्तनादृष्टव्या ।।
[ भा. २७८९ ]
एसा जयणा बहुस्सुए अबहुस्सु न कीरते तु वक्खारो । ठावेंति एगपासे अपरिभोगंभि उजतीणं ।।
वृ - एषा अनन्तरोदिता बतना बहुश्रुतेदृष्टव्या । अबहुश्रुतेऽप्येवं, नवरं स सम्बद्धगृहापवरके स्थाप्यते, भिन्नस्तु वक्षारोऽपवरको न क्रियते । सम्बद्धगृहापवरकाभावे च वसतेरेकस्मिन् यतीनामपरिभोग्ये तं स्थापयन्ति, । अपान्तराले कटो दीयते । कटाभावे भूत्या अन्तरं क्रियते । अथ किं कारणमबहुश्रुतो बहिर्नर्कियते ? तत आह[भा. २७९०]
विवज्जतो उडविवज्रएहिं मा बाहिभावं अबहुस्सुतो उ । रुट्टाए भूतीव तिरो करेंति, मा एक्कमेकं सहसा फुसेज्जा ।।
बृ- उद्वविवज्जकैरहं विवर्जित परिहत इत्येवमबहुश्रुतो मा बहिर्भावमुपयासीदिति भिन्ने अपवरके न स्थाप्यते किन्तु वसतेरेकस्मिन् प्रदेशे, तत्रापि काष्टादिना फलकादिरुपेण तदभावात् भूत्या वा अन्तरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org